________________
332
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः त्यादिषु उभयाकारविशिष्टस्यैकस्य दृशिकर्मत्वदृष्टेः बुद्धयैक्यं दुरपह्नवम् । अत एव ग्रहणस्मरणात्मकमिदं ज्ञानमिति वदन्तः प्रत्युक्ताः । '* ननु कथमिन्द्रियासंबद्धस्तदंश इदानीमिन्द्रियण गृह्येत? * मनोऽसंबद्धोऽनुभूतविषयः कथं मनसा? तदु
आनन्ददायिनी बाधकाभावे सामानाधिकरण्यविषयत्वनियमादिति भावः । उभयाकारेतिपूर्वकालिकत्ववर्तमानकालिकत्वविशिष्टस्यैकस्यैवेत्यर्थः । उभयधर्मविशिष्टस्यैकस्य दृकर्मत्वं बुद्धयैक्यमापादय(माक्षिप)तीति भावः। अन्यथा दृशिप्रयोगवत् अधीगर्थप्रयोगोऽपि स्यादित्यर्थः । केचित्तु दृशिकर्मत्वदृष्टेः-- प्रत्यक्षमात्रकर्मत्वस्य द्वितीयाप्रयोगे दर्शनात् । अन्यथा तमित्यत्र अधीगर्थसम्बन्धेन षष्ठीप्रसङ्गादित्याहुः । ननु स्मृतिकर्मदृक्कर्मभेदाग्रहादुभयकर्मत्वविशिष्टे कर्मत्वव्यवहार इति चेत् ; अत्र वदन्ति-- बाधकाभावेन भेदाग्रहादैक्यव्यवहारस्य वक्तुमयुक्तत्वात् । न च सत्त्वानुमानं बाधकं ; तस्यास्मात्प्रत्यक्षार्बलतया बाधितत्वेन स्वरूपालाभादिति । अत एवेति-ज्ञानस्यैक्ये सिद्धे तस्य च प्रत्यक्षत्वे विरोधिपरोक्षत्वव्याप्यस्य स्मृतित्वस्य प्रत्यक्षे विरोधादिति भावः । वदन्तःमीमांसकाः। ज्ञानद्वयवादी ग्रहणस्मरणात्मकज्ञानवादी च शङ्कते-नन्विति
भावप्रकाशः पूर्वदृष्टस्यासन्निहितत्वात् । असन्निहितविषयं चार्थनिरपेक्षमिति' इति भावेन शङ्कते-1 * नन्वित्यादि । 2 * मनोऽसंबद्ध इत्यादि-मानसज्ञानस्यापि तन्मते प्रत्यक्षत्वेन प्रमात्वमवश्याभ्युपेयं । तदुक्तं न्यायबिन्दौ धर्मकीर्तिना- कल्पनापोढमभ्रान्तं प्रत्यक्षं' इत्युपक्रम्य तच्चतुर्विधंइन्द्रियज्ञानं स्वविषयानन्तरविषयसहकारिणन्द्रियज्ञानेन समनन्तरप्रत्य