SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ 326 सव्याख्यसर्वार्थसिद्धिसाहेततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः बलाद्धाधः। विप्रतिपन्ना एकत्वधीःप्रमाविरुद्धधर्मासंसृष्टविषयत्वात् * सम्मतैकत्वधीवत्। न हि स्वलक्षणानां प्रत्येकमेकत्वं नास्ति! तथा सति *एकानेकसर्वविकल्पलोपेन माध्यमिकविजयप्रसङ्गात् । आनन्ददायिनी तथा सतीति-स्वलक्षणं किञ्चिदपि एक वा भिन्नं वा? भिन्नमपि किञ्चिदेकं वा भिन्नं वा ? इति विकल्पेन स्वलक्षणसर्ववस्तुविलोपप्रसङ्गेन माध्यमिकमतप्रसङ्ग इत्यर्थः । सर्वस्याप्येवं विकल्पे कुत्रापि विश्रमाभावात् स्वलक्षणं भिद्यमानस्वरूपमेव यादवमुसलनीत्या न भवेदिति भावः । भावप्रकाशः द्वितीयक्षणभङ्गसिद्धौ रत्नकीर्तिनेति तत्रैव द्रष्टव्यम्। 'विरुद्धेत्यादि-- न्यायासद्धाञ्जने तु अबाधितबुद्धित्वादिति हेतुरुक्तः । *सम्मतैकत्वधीव दिति-यद्यपि अभिज्ञाप्रत्यभिज्ञाविषययोरेकत्वयोर्भेदोऽद्रव्यसरे वक्ष्यते। तथाऽप्येकत्वशब्देनोभयोरभिधानेनैकत्वविषयकत्वं धीद्वयस्याप्यक्षतम् । बौद्धमते तु अतद्रूपपरावृत्तगजादिव्यतिरेकणी । न संख्या भासते ज्ञाने दृश्येष्टा नैव सास्ति तत् ॥ इति तत्वसंग्रहे (६३८) शान्तरक्षितेन एकत्वसंख्यायाः धर्मिरूपाया भानाङ्गीकारेण बाह्यार्थवादिवैभाषिकमते तज्ञानस्य अनुमानप्रामाण्योपपादनदिशा प्रमात्वं संभवतीति भावः । * एकानेकसर्वविकल्पलोपेन माध्यमिकविजयप्रसङ्गादिति । तदुक्तं वसुबन्धुना विंशतिकारिकाविज्ञप्तिमात्रतासिद्धौ--- रूपाचायतनास्तित्वं तद्विनेयजनान् प्रति । अभिप्रायवशादुक्तमुपपादुकसत्त्ववत् ॥
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy