________________
सरः] क्षणभङ्गसाधनानुकूलव्याप्तितको प्रत्यभिज्ञाप्रमात्वसाधनस्यासिद्धिपरिहारश्च 325
तत्वमुक्ताकलापः विरुद्धानुपहितविषया साधयेत् प्रत्यभिज्ञा
सर्वार्थसिद्धिः इति '* यदक्षणिकं तदवस्तु यथा खसूनं। अक्षणिकत्वे चामीषां तद्वदसत्त्वप्रसङ्ग इति भावः। विरुद्धानुपहितविषयेति-विरुद्ध. धर्मासंसृष्टविषयेत्यर्थः । दीपस्रोतःप्रभृतिषु अनन्यथासिद्धभेदक
__ आनन्ददायिनी अवस्तु-असदित्यर्थः । विरुद्धेति-कथञ्चिदपि परस्परसामानाधिकरण्यानहधर्मा (संसृष्ट) नाश्रयविषयेत्यर्थः । भेदकं-सामग्रीभेदादि ।
भावप्रकाशः वस्तुमात्रं साक्षादस्फुरणात् प्रत्यक्षस्य ग्राह्यो विषयो मा भूत् ; तदेकदेशग्रहणे तु तन्मात्रयोयाप्तिनिश्चायकविकल्पजननादध्यवसेयो विषयो भवत्येव क्षणग्रहणे सन्ताननिश्चयवत् रूपमात्रग्रहणे घटनिश्चयवच्च ; अन्यथा सर्वानुमानोच्छेदप्रसङ्गात् इत्यपि । यस्य क्रमाक्रमिकार्यविषयत्वं नास्ति न तच्छक्तं यथा शशविषाणं । नास्ति च नित्याभिमतस्य भावस्य क्रमाक्रमिकार्यविषयत्वमिति व्यापकानुपलम्भेन विपर्यये बाधकप्रमाणेन व्याप्तिसाधनं सूचयन्
व्यतिरेकात्मिकां व्याप्तिमाक्षिप्तान्वयरूपिणीम् ।
वैधर्म्यवति दृष्टान्ते सत्त्वहेतोः प्रभाषते ॥ '*यदक्षणिकमित्यादिना व्यापकानुपलम्भः अक्षणिकस्यासत्त्वं सत्त्वस्य ततो व्यतिरेक क्षणिकत्वेन व्याप्तिं च साधयत्येकव्यापारात्मनेति स्थापित