________________
308
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्ये
सर्वार्थसिद्धिः समवायस्यास्माभिरनभ्युपगमात् । तदेतदस्मच्छब्दान्वादेशेन सूचितम् । का तद्युत्पत्तिः? * कृतिरेव । अन्यधर्मः कथमन्यस्योत्पत्तिः? इति चेत् ; * तादर्थेन तद्धर्मतोपचा
आनन्ददायिनी अस्मच्छब्दति- षष्ठीबहुवचनान्तस्य विहितान्वादेशाख्येन नश्शब्देनेत्यर्थः । अन्यधर्म इति । कृतिरात्मधर्मः कथं घटधर्मरूपोत्पत्तिस्स्यादित्यर्थः । यद्वा कृतियापारः कारकधर्मः । तादर्सेनेति । ज्ञातो घट इत्यादौ ज्ञातताऽनभ्युपगन्तुर्ज्ञानस्येव घटधर्मत्वमि
भावप्रकाशः वर्तमानावस्थया प्रागसत्त्वं अतीतावस्थया सत्तां च न प्रतिपादयन्ति ; किं तु धर्मिणां प्राक्सत्त्वं न धर्माणां इत्यादिकमेवेत्यादि स्फुटम् । सिद्धान्ते पूर्वोत्तरावस्थानाशप्रागभावयोर्भावरूपत्वेऽपि परस्परं धर्मिणा च सहाभेदानङ्गीकारान्न कोऽपि दोषः । विज्ञानभिक्षुणाऽपि श्रीभाष्यादिसिद्धान्तितकतिपयार्थसाधयित्रा अत्राप्येवमेव यद्यङ्गीक्रियते तदा नास्माकं प्रद्वेष इति । एतच्च ‘एकस्य प्रागसन् भेद,' इति कारिकया आचार्यवेक्ष्यते इति । अतिरिक्तावयविजनकतया पराभ्युपगतासमवायिकारणभूतसंयोगविशिष्टावयवानामेव यथा घटाद्यवयविरूपता; अन्यथाख्यातिजनकत्वेन परसंमतज्ञानद्वयस्यैव यथा भ्रमत्वं ; एवमुत्पत्तिप्रयोजकत्वेन पराङ्गीकृतः कारकव्यापार एवोत्पत्तिः; सैव कृतिः; कार्योत्पाद्यशब्दयोलोके पर्यायेण प्रयोगदर्शनादिति भावेनाह
1* कृतिरेवेति ' *तादथ्येनेति-घटतदवस्थयोः कृत्युद्देश्यत्व