________________
सरः]
सत्कार्यवादनिरासे पररीत्येव स्वपक्षे प्रतिबव्दीनिस्तारः507
तत्वमुक्ताकलापः नैवं कृतौ नः ॥ २४॥
सर्वार्थसिद्धिः । उत्तरत्र कारकनैष्फल्यापसिद्धान्तौ । व्यक्तिरपि कृता व्यक्ता वेत्युभयथाऽप्यनवस्था तत्राह-नैवमिति । कृतिर्हि कारकाणां व्यापारः । स च आगन्तुकस्वकारणव्यापारेण जन्यते । सोऽपि तथेति सिद्धानवस्थैषा । सा च सर्वसम्मता न दो(पकृत)पः । त्वयाऽप्यभि (त्वयाऽपिहि) व्यञ्जकव्यापारो व्यजकान्तरव्यापारव्यङ्गय इति वाच्यम् । ननु व्यक्तिर्न व्यज्यते न क्रियते च । अव्यक्तव नित्यं स्वयंव्यक्तैव वा कार्याणां व्यक्तिस्स्यात् ? न स्यात् । तदर्थकारकव्यापारवैयर्थ्यप्रसङ्गात् । कार्याणां नित्यव्यक्तिप्रसङ्गाच्च । ननूत्पत्तिर्नाम सत्तासमवायो वा स्वकारकसमवायो वा । स च नित्यः । न तदर्थ(र्थःका) व कारकव्यापारः कृतिरिति समा (नं ।) ना चर्चा ? न; .
___ आनन्ददायिनी . मूलक्षयकरत्वाभावात् बीजाङ्कुरस्थल इव न दोष इति परिहरतिकृतिहाँति । अभिव्यञ्जकव्यापारे त्वयाऽपि दृश्यानवस्था वक्तव्ये (स्थाङ्गीकार्ये) त्याह--त्वयापीति । ननु अभिव्यक्युत्पत्तिपक्षयोस्तुल्यत्वेऽभि(त्वादभि)व्यक्तिपक्षे कः प्रद्वेषः इति चेन्न; अभिव्यक्तिवादिनस्तव सर्वनित्यत्वाङ्गीकारादीदृशावस्थयाऽप्यभिव्यक्तिकादाचित्कत्वादिसमर्थनं दुर्घटं (मत्त्वा) आगन्त्ववस्थावादिनस्तादृशव्यापाराङ्गीकारात्सुलभमित्युत्पत्तिपक्ष एव श्रेयानिति द्रष्ट (मन्त) व्यम् । नन्वभिव्यक्तेनाभिव्यक्तयन्तरमपेक्षितं ; तथा च नानवस्थेति त्वदुक्तप्रतिबन्धवकाशो नेति शङ्कते—नन्विति । ननु परस्यापि कारकव्यापारवैयर्थ्यमिति प्रतिबन्दीमाशङ्कते–नन्विति । सत्ता-सत्ताजातिः । चर्चा-विचारः ।
20*