________________
सरः]जनेः व्यक्तिरूपत्वेऽपि सांख्यमते व्यक्तिपदार्थस्य दुर्वचत्वं नित्यत्वाद्यनुपपत्तिश्च303
सर्वार्थसिद्धिः 1*किञ्च–व्यक्तिरपि नित्या कार्या वा? पूर्वत्र कारकाणामिव 2* व्यञ्जकानामपि नैष्फल्यम् ;
___ आनन्ददायिनी असत उत्पत्तिपक्षे दूषणानां स्वव्यापकत्वाजातित्वमित्याह-किञ्चेति ।
भावप्रकाशः विद्यमानानां स्वलक्षणेन–स्वज्ञापिकया कारकव्यापारसामग्रया पूर्तिः-व्यवहारविशेषरूपफलोपयोगितत्यर्थ । एतेन-सांख्यचन्द्रिकायां 'व्यवहारोपयोगितत्तत्कार्याभिव्यक्तेस्तत्तत्कार्यनिष्ठसत्त्वगुणरूपतया नित्यत्वेऽपि तमसा प्रतिबद्धत्वान्न व्यवहारोपयोगित्वं अभिव्यञ्जकसामग्रया तूत्तेजकेन मणरिव तमसः प्रतिबन्धाद्व्यवहारक्षमत्वमिति सामग्रया उत्तेजकत्वमात्राङ्गीकारात् सत्कार्यवादबाधाभावः' इत्युक्तिरपास्ता । पूर्वमपि
न हि व्यक्तौ विशेषोऽस्ति नचावरणवारणम् ।
तयोराप भवत्पक्षे नित्यत्वात्साध्यता कथम् ? ।। इत्यारभ्य
इन्द्रियप्रतिघातेन भागैर्भागान्तरावृतिः ।
यथाऽन्यत्र तथा नात्र कादाचित्कदशात्यजः ॥ इत्यन्तग्रन्थेनायमर्थः स्फुटीकृतः । ध्वंसप्रागभावौ अतीतानागतावस्थारूपौ अभिव्यक्तिश्च वर्तमानावस्थैवेति निष्कर्षमपि दूषयति1* किञ्चेत्यादिना। नित्या—कालत्रये सती ॥ '* व्यञ्जकानां-वर्तमानावस्थासम्पादकानां । उदाहृतयोगभाष्यादिषु लक्षणशब्दाभिधेयानामवस्थानां सदासत्त्वरूपनित्यत्वमङ्गीकृतम् । इत्थं च विज्ञानभिक्षुणा 'खोपज्ञसाङ्ख्यप्रवचनसूत्रभाष्ये अभिव्यक्तैर्वर्तमाना