________________
302
सव्याख्यसर्वार्थासद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः भवतु वा जनिशब्दो व्यक्तिपरः
* न व्यक्तिरूपलब्धिस्ते दृष्टादृष्टदशान्वयात् । अथोपलब्धियोग्यत्वं न तदव्यापकत्वतः ॥ 2 * सत्स्वलक्षणपूर्तिश्चेदभिव्यक्तिः तदप्यसत् । सापि नः) प्राक्तनी नो चेत् न सिध्येद्धेतुरप्यसन् ॥
आनन्ददायिनी उत्पत्तिरिति न ते विवक्षितसिद्धिरित्याह-भवतु वेति । अभिव्यक्तिः किमुपलब्धिरेव उत तद्योग्यत्वं? नाद्य इत्याह- दृष्टादृष्टदशान्वयादिति । उत्पत्तिरभिव्यक्तिश्चेत् सोपलब्धिरिति घटस्य यावद्विनाशमभिव्यक्तिमत्त्वात् दृष्टत्वादृष्टत्वरूपदशान्वयो न स्यात् । ऊत्पत्त्यनन्तरं विद्यमान एव घटः कदाचिद्दश्यते कदाचिन्न दृश्यते चेति भावः । न द्वितीय इत्याहअथेति । अथेन्द्रियाणामुत्पत्तिरस्ति; तन्न स्यात् ; उपलब्धियोग्यत्वरूपा. भिव्यक्तेरभावादित्यर्थः । सत्स्वलक्षणेति-सतो विद्यमानस्य स्वलक्षणस्य वस्तुस्वरूपस्य पूर्णता अभिव्यक्तिः । सा कारकव्यापाराद्भवतीत्यर्थः । पूर्तिरपि पूर्वमस्ति नवेति विकल्प्य आद्यं दूषयति-साऽपि प्राक्तनीति । कारकव्यापारवैयर्थ्यमित्यर्थः । द्वितीयं दूषयति-नो चेदिति । असतस्सर्वदा असत्वात् पूर्तिर्न सिध्येदित्यर्थः । हेतुरप्यसन्निति-कार्यपूर्वसत्त्वसाधकस्सत्स्वलक्षणपूर्तिरूपाभिव्यक्तौ व्यभिचारादसन्नित्यर्थः ।
भावप्रकाशः निदानं न पश्यामः इति भावेन दूषयति ।
* न व्यक्तिरित्यादिना । व्यक्ति:--अभिव्यक्तिः । - सत्स्वलक्षणपूर्तिरिति । सतां - कारकव्यापारात्पूर्वमाप शक्तयात्मना