________________
सरः] त्रिगुणपरीक्षायां सत्कार्यवादहेतुनिरासे आकारान्तरेणासत एव कार्यत्वम् 267
तत्वमुक्ताकलापे न स्वोचितात्कार्यदृष्टेः ।
सर्वार्थसिद्धिः पञ्चानामप्याभासत्वाभिप्रायेण प्रतिवक्ति-नेति । तत्र प्रथमस्य प्रतिक्षेपे हेतुः कार्यदृष्टेरिति । शेषाणां तु स एव स्वोचितादिति विशेषितः। न तावत् कार्यमिति किमपि न दृष्टम् ! सर्वलोकवेदविरोधात् । व्यक्तिसाधनस्यापि निराश्रयत्वप्रसङ्गाच्च । न च दृष्टमपि न सत्यम् ! माध्यमिकादिमतानां निराकरिष्यमाणत्वात् । न च सत्यमपि न कारणांद्यतिरेकेण गृह्यते! उक्तोत्तरत्वात् । प्रकृतिविकृतीत्यादिविभागभङ्गप्रसशाच्च ।
आनन्ददायिनी सर्वकार्यसम्भवोऽस्तीति विपर्ययः । पञ्चानामिति- साधकानिष्टापादकरूपाणामनुमानतळणामित्यर्थः । विशिष्टस्य सर्वहेतुदूषणपरत्वे विशेषणवैयर्थ्यमाद्यहेतावित्यभिप्रायेणाह—तत्रेति । किञ्चिद्विशेषस्य किञ्चिद्विशेष प्रति अन्वयव्यतिरेकवशात् कारणत्वोक्तौ नोक्तदूषणामिति शेषाणां दूषणमाह-शेषाणां त्विति । स्वोचितत्वं-कार्यानुकृतान्वयव्यतिरेकित्वम् । कार्यदृष्टरित्येतदुपपादयति-न तावदिति । तथाच सत उत्पत्तिदर्शनाद्बाध इत्यर्थः । न चासत उत्पत्तौ शशशृङ्गस्याप्युत्पत्तिः। अन्वयव्यतिरेकसिद्धकारणाभावात् । निराश्रयत्वप्रसङ्गाच्चेतितथाच आश्रयासिद्धिारति भावः। 'लोकविरोधपरिहारमाशङ्कतेन च दृष्टमपीति । परिहरति—माध्यमिकादिमतानामिति । बाधादशनेऽप्यसत्यत्वे सर्वत्राप्येवं प्रसङ्गेन माध्यमिकमतप्रसङ्गः; स च निराकरिष्यत इत्यर्थः । उक्तोत्तरत्वादिति-पूर्व घटो नासीदिदानीमासीदिति कारणाव्यतिरेकेण लोकदृष्टरित्यर्थः । प्रकृतीति-असदवस्थाया