________________
266
सव्याख्यसर्वार्थसिद्धिसाहेततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः सिकतानां तदभावः । तथासति तद्वतस्तनिष्पत्तेः प्रागपि तत्सिद्धिरनिवाति । आदिशब्देन कारणभावात् सर्वसंभवाभावादिति हेतुद्वयग्रहणम् । कारणभावात् कार्यस्य कारणात्मकवादित्यर्थः। प्रागेव सति कारणे कथं तदा तदभिन्न कार्यमसद्भवेत् ? * नन्वस्तु प्रागसदेव कार्यम् ? मा च भूवन् हेतुप्राप्तितद्वृत्तितदैक्यानि; तथापि कस्यचिदेव किंचित्कार्यमित्यत्र सर्वसम्भवाभावादिति 2* प्रसङ्गतद्विपर्ययाभ्यां प्रत्युक्तिः तथाहि-यदि प्रागसत् हेतुभिरप्राप्तं हेतुवृत्तितादात्म्यरहितं च तत उत्पद्यते सर्वस्मात्सर्वसम्भवस्स्यात् । न चासावस्ति ! इति
आनन्ददायिनी तदभावः-सिकतादिषु तैलाभावः। तद्वतः-- कार्यरूपशक्तिमतो हेतोः । तन्निष्पत्तेः-कार्यनिष्पत्तेः; प्रागपि तत्सि (द्धिरनिवार्येत्यर्थः) द्धिः कार्यसत्ताऽस्तीत्यर्थः । हेतुद्वयं-तर्कमूलभूतव्याप्ति (र्के आपादक) द्वयमित्यर्थः । प्रसङ्गतद्विपर्ययावेवोपपादयति-तथाहीति । सर्वस्मात्सर्वसंभवस्स्यात्- सर्वकारणादपि सर्व कार्य स्यादिति प्रसङ्गः । न चासौ
भावप्रकाशः
* चन्वस्तु इत्यादिना । * प्रसङ्गतद्विपर्ययाभ्यामित्यादि.. 'प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम्' . इत्यत्र तत्वकौमुद्यां वाचस्पतिना 'पूर्ववच्छेषवत्सामान्यतो दृष्टम् ' इति न्यायसूत्रानुरोधेन अनुमानत्रैविध्यमुक्तम् ; न तु अनुपलध्विः स्वभावकार्ये चेति बौद्धमतानुसारेण ; अतः प्रसङ्गतद्विपर्यययोः शेषवद