________________
256
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्ये
--
-
-
तत्वमुक्ताकलापः व्यवहृतिनियमस्सूत्रितस्तारतम्यात् देहादौ येन
सर्वार्थसिद्धिः विशेषव्यपदेशः? इत्यत्राह-व्यवहृतीति! मूत्रितो ह्यसौ! 'वैशेष्यात्तु तद्वादस्तद्वादः' इति व्यात्मकत्वात्तु भूयस्त्वात्' इति च । अत्र प्रतिबन्दी प्रथयति--देहादाविति । येनेति तारतम्यपरामर्शः । तवाप्यनारब्धावयविकेषु विजातीयराशिषु भूयसा व्यवहारो लोकसिद्धस्संमन्तव्यः । विजातीयदारुशिलाधारब्धेषु च खटागोपुरादिषु किञ्चिज्जातीयत्वनियमः। तत्रावयव्यनारम्भे सर्वत्रैवमस्मन्मतसिद्धिः।
आनन्ददायिनी वादः । तथैव पाठ इत्येके । शाखान्तरे तथा पाठ इत्यपरे । वैशेष्यादित्यादि-एकभूतांशस्याधिक्यात्तद्भुतव्यवहार इत्यर्थः । द्विरुक्तरध्यायपरिसमाप्तिदोतिका । त्र्यात्मकत्वादिति--त्रित्वमुपलक्षणम् ; पञ्चभूतात्मकस्यापि त्र्यात्मकत्वात् । कथमेकभूतव्यवहारः ? इति शङ्कायामेकांशस्य भूयस्त्वात्तद्व्यवहार इत्यर्थः । तारतम्यपरामर्श इति–तथाच मूलस्यायमर्थः-भूतान्तरयुजि—पञ्चभूतानां देहारम्भात्पूर्वकाले संहतानां सत्त्वात् शरीरं पृथिव्यारब्धमेव कुतः अप्यं वा भवतु ? इति शङ्कायां पृथिव्यवयवानां बहुत्वात्तस्या एव शरीरारम्भकत्वमित्यादि किञ्चिद्वयवस्थापकं वक्तव्यम्; तदत्रापि समानमिति । आदिशब्दद्वयार्थमप्याहतवापीति । विजातीयराशिषु-अधिकैकजातीयमाषतिलादिराशिषु ।
अस्मन्मतसिद्धिाति-तत्रातिरिक्तावयव्यभावेऽपि शब्दान्तरादिसर्वकार्यसिद्धौ सर्वत्राअप तथा शब्दान्तरादिसंभवात् अवयवी न स्यादित्यर्थः ।