________________
सरः]त्रि-यां देहे नानाजातिसमावेशे बाधकाभावः पार्थिवत्वव्यपदेशानुपपत्तिशङ्काच 255
सर्वार्थसिद्धिः ज्जातीयामत्यपि प्रत्युक्तम् ; तन्त्वादिजातीयैः अतन्त्वादिजातीयोत्पत्त्यभ्युपगमाञ्च । भवतु वा पृथिवीत्वतोयत्वादिजातीनामेकत्र समावेशः! तथाऽपि का हानिः? परस्परपरिहार्युपाधिद्वयसमावेशन्यायेन दर्शनादर्शनाभ्यामेव सर्वातिप्रसङ्गशान्तः । ननु पाञ्चभौतिकेषु कथमेकभूतशब्दः तत्तदर्थक्रियानियमश्च ? वर्णितो हि भवद्भिरेव भूतान्तरोपसृष्टेष्वपि देहादिषु पार्थिवाप्यादिविभागः। कथं मन्त्रार्थवादेषु 'पृथिवी शरीरम्' इत्यादि
आनन्ददायिनी तर्हि क्लप्तानन्तर्भावाद्दव्यान्तरतापत्तिरित्यत्राह--कल्प्यते चेति । क्लुप्तानन्तर्भावे रूपन्यायादतिरिक्तत्वमिति भावः। द्रव्येप्वयं नियम इत्यत्राहतन्त्वादीति । ननु जातिसंकराङ्गीकारे गवां क्षीरं पातव्यं नोष्ट्रादेरिति शास्त्रार्थनियमो न स्यात् ; गव्यप्युष्टुत्वजातिसम्भवादित्यत्राह-परस्परेति। यथा स्वादुत्वरसवत्त्वकाश्यादिदेशप्रभवत्वादिरूपोपाधिसाङ्कर्येऽपि गोपयस्त्वोष्ट्रपयस्त्वादेः साङ्कर्याभावात् शास्त्रार्थनियमः ; यथा गृहस्थत्वयतित्वादेरेककाले न साङ्कयं यथा वा शूद्रान्नत्वब्राह्मणान्नत्वादेरसाङ्कय दर्शनबलादङ्गीकार्यम् ; तथाऽत्रापि यथादर्शनं व्यवस्थासंभवान्न दोष इत्यर्थः । ननु शरीरस्य पाञ्चभौतिकत्वे कथं पार्थिवत्वव्यपदेशः? इत्याशङ्कयाह-नन्वित्यादिना । तत्तदर्थक्रियानियमः-~-पार्थिवत्वप्रयुक्तगुरुत्वकाठिन्यादिहेतुकक्रियैव । न तु सेचनदहनादिक्रियाः । वर्णितो हीति -- अस्थित्वगादिकं पार्थिवं रुधिरादिकमाप्यमित्यादिविभाग इत्यर्थः। मन्त्रार्थवादेष्विति-निरूढपश्वङ्गहोमकरणमन्त्रार्थवादे इत्यर्थः । तत्र यद्यपि ; 'पृथिव्यै शरीरम्' इति पाठो दृश्यते ; तथाऽपि अन्तरिक्षमात्मा' इत्यादिसाहचर्यात् विभक्तिव्यत्ययेनार्थतोऽनु