________________
सर:]
त्रिगुणपरीक्षायां सद्दव्यवादसाधने खण्डद्रव्योत्पत्त्यनुपपत्तिः 251
सर्वार्थसिद्धिः
तदेतत् समुद्रादिषु कैमुत्यसिद्धम् । यदप्येवं कल्प्यते - ' द्वाभ्यामेवाणुभ्यामाद्यं कार्यद्रव्यमारभ्यते एकस्यानारम्भकत्वात् ; असमवायिविरहात् । संयोगो हि न स्वेन स्वस्य ! बहुभिरारब्धत्वे महत्त्वप्रसङ्गेन प्रत्यक्षत्वापातात् ; बह्वारब्धस्याप्यणुत्वेऽतिप्रसङ्गः । तत्परिमाणं च अवयवसंख्याविशेषेण ; अवयवमहत्त्वप्रचययोरसंभवात् ; नित्यपरिमाणस्यानारम्भकत्वात् । स्वातिशयपरिमाणारम्भकत्वनियमेन अणुतरपरिमाणारम्भकत्वप्रसङ्गाच्च । सा च द्वित्वसंख्या सर्वज्ञापेक्षाबुद्धिजन्या; तहिनाशकाभावेऽपि कार्यत्वादनित्या | एवं त्रिभिरेव द्व्यणुकैः
सरेण्वारम्भः तावतैव महत्त्वलाभात् ; द्वाभ्यामारम्भे त्ववयवप्रचयमहत्त्वरूपकारणान्तराभावेन महत्त्वानुत्पत्तावदृश्यत्वप्रसङ्गात् । स च त्रसरेणुरप्रत्यक्षावयव (क) तद्रूपोऽपि स्वयं प्रत्यक्षः आनन्ददायिनी
!
खननादिरादिशब्दार्थः । ननु पृथिव्यवयव्यभावेऽपि जलावयव्यस्तु ! इत्यत्राह - तदेतत् समुद्रादिष्विति कार्यं नैवारभेरन्' इत्यादिपद्यत्रयेण दूषणं तन्मते कचिदर्थे दूषणोक्तिः वेदान्तविरुद्धार्थेषु सर्वत्र दूषणस्योपलक्षणमित्याह-यदपीति । आद्यं कार्यं द्व्यणुकमित्यर्थः । एकस्येति - परमागोरिति शेषः । संयोगो हीति-स्वस्य स्वेन नेत्यर्थः । बहुभिरिति - कारणबहुत्वस्य महत्त्वप्रयोजकत्वादिति भावः । अतिप्रसङ्ग इति यणुकमप्यणुस्यात् ; तथाच महदेव न स्यादित्यर्थः । तत्परिमाणं चेति द्वणुक परिमाणमित्यर्थः । (संख्याविशेषेण) आरभ्यते इति शेषः । अवयवमहत्त्वंकार्यगत (परमाणुपरिमाणातिरिक्त) परिमाणं । पारिशेषात् संख्याविशेषो द्वित्वसंख्येत्याह- सा चेति । कार्यत्वादिति-भावकार्यत्वादित्यर्थः । अप्रत्यक्षेति—अप्रत्यक्षत्वमवयवतद्रूपयोर्विशेषणम् । प्रत्यक्षरूपारव्य