SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ 250 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य तत्वमुक्ताकलापे अंशत्कर्षक्षयादिक्षममपि च ततो राशिवत स्थूलमेकम् । नोचेत् अश्रान्तचण्डानिलजलधिधुनी सर्वार्थसिद्धिः यथोपलम्भं संघातपक्ष एव साधीयान् इत्याह-अंशूत्कर्षेति । आदिशब्देन अंशुविदारणसंधाने गृह्यते । यदि क्वाचित्कावयवभेदमात्रात् पूर्वद्रव्यनिवृत्तिरवयव्यन्तरोत्पत्तिस्स्यात् । तत्रानिष्टमाह-नो चेदिति । अव्यवस्थितेषु प्रदेशभेदेषु तैस्तैर्भेदकैरणुद्वयविघटने द्वयगुकविनाशादिक्रमेण महापृथिवीपर्यन्तनाशे सति अवस्थितसंयोगैरपि पुनस्तदारम्भावसरोन सेत्स्यति ; आनन्ददायिनी न्यायेन । अंशूत्कर्षात् क्षयः-अपचयः । आदिशब्दादुपचयः । तत्क्षमतद्योग्यमिति संघातपक्षे न दोष इति । अतिरिक्तावयविवादिनोऽप्यतिरिक्तावयव्यारम्भकां (म्भावता) शाभावात् अणुत्वावस्थाया अपरित्यागात् तद्व्यतिरिक्तद्वयणुकाद्यभावात् द्रव्यमानं प्रत्यक्षं न स्यात् इति गौतमोक्तदूषणप्रसङ्गात् अकामेनापि सिद्धान्त्युक्तरीत्या संघातपक्ष एवाश्रयणीय इत्यनिष्टप्रसञ्जनव्याजेनाह—यदीति । न सेत्स्यतीति-द्रव्यान्तरोत्यादकानामपि विनाशसामग्रीनियतत्वेन तदुत्पादनसमये समवायिनाशस्यैवोत्पत्तेरित्यर्थः । मूलस्यायमर्थः-नोचेत्-संघात एवेत्यनङ्गीकारे। अनवरतचण्डवाय्वादिभिः अवयवशोऽभिघातेन विभज्यमाना क्षणकालमप्यण्ववस्थां न परित्यजेत्-सर्वदा अणुसंघातरूपैव स्यादिति।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy