________________
226
226
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जिडद्व्य
तत्वमुक्ताकलापः इत्थं वृत्त्यादिखेदो न भवति
सर्वार्थसिद्धिः मप्यविभक्ताकाशप्रदेशवृत्तावविरोधस्स्यात् । नीरक्षीरादिमेलने. का वार्ता ?. हन्त! स्वसिद्धान्तं प्रस्मृत्य पृच्छसि । एतेन भूमावुन्मज्जति निमज्जतीत्यादि सिद्धनिदर्शनमपि विहतम् ; तस्मादवयवावयव्यतिरिक्तविषय एव सप्रतिघत्वविरोधव्यवस्थापनमपि निर्मूलमिति ॥२०॥ " . परपक्षे प्रसञ्जितानां दोषाणामभावात् स्वपक्षस्य सम्यक्तुमाह-इत्थमिति । इत्थं-अवस्थाभेदमात्रेण निर्वाहे सतीत्यर्थः। यद्वा त्वत्पक्षवदिति । उक्तस्सप्रतिघत्वविरोध बत्तेः खेदः।
आनन्ददायिनी कथं ? भूमौ सिद्धादीनां निमज्जनं कथम् ? तस्मात् स्पर्शवतां सप्रतिघत्वव्याप्तिरवयवावयविव्यतिरिक्तस्थले नीरक्षीरादिस्थल इव संकुचिता न वर्तत इत्यत्राह-नीरक्षीरेति । स्वसिद्धान्तं प्रस्मृत्येतिनीरक्षीरादिप्ववयवविभागेन परस्परानाक्रान्त प्रदेश एव परस्परावयवानां वृत्तिसिद्धा। निमज्जनादावपि भूविभागेन प्रवेशः; झडिति जलनिमज्जने विभक्तजलसन्धानन्यायेन पुनस्सन्धानम् । तच्च सूक्ष्मकालत्वात् ज्वालानाशन्यायेन न प्रतीयते इति किरणावल्यादौ प्रतिपादितमित्यर्थः । तस्मादिति-तथाच संकोचे न प्रमाणमिति भावः ॥२०॥
संगतिं दर्शयति-परपक्ष इति । दृष्टान्तपरत्वे स्वारस्यादाहयद्वेति । अथ प्रत्यक्यवं अविभागेन वर्तते उत विभागेन ? इति