________________
सर:]
त्रिगुणपरीक्षायां सद्व्यवादसाधने कार्यसोपादानातिरेके दोषः
225
तत्वमुक्ताकलापः नो चेदंशांशिनोस्स्यात्प्रतिहतिः उसयोः स्पर्शवत्त्वाविशेषात् ।। २० ॥
सर्वार्थसिद्धिः नो चेदिति । अंशांशिनोः-अवयवावयविनोरित्यर्थः। उक्तप्रसङ्गे तदभिमतमेव हेतुमाह-उभयोरिति । द्वयोर्द्रव्ययारेन्यतरस्य वा स्पर्शहीनत्वे मिथः प्रतिरोधो नास्ति ; इह तु न तथेत्यभिप्रायणोभयाोरत्युक्तम् । अवयवावयविनोरेकत्र वृत्तिर्नास्तीति चेत् ; समवायिदेशैक्याभावेऽपि संयोगिदेशैक्य * मङ्गीकरोषि; तत्र कथं तन्त्ववष्टब्धनमा प्रदेशे पटसंयोगः? माभूदिति चेत् ; मूर्तामूर्तसंयोगविलोपप्रसङ्गः, मेरुमन्दरादीना
- आनन्ददायिनी त्यारभ्य पत्रताटङ्कादिस्थलपरिहाराशङ्कापूर्वकं नो चेदित्यस्यावतारिकाग्रन्थः । नन्ववयवस्य स्वावयववृत्तित्वं अवयविनोऽवयववृत्तित्वमिति नैकत्र वृत्तित्वमिति शङ्कते-अवयवावयविनोरिति । संयोगिदेशैक्यमितिएकत्र नभस्स्थलेऽवयवावयविनोस्संयोगसंबन्धवृत्तिरिति भावः । मूर्तामूर्तेति—यद्यपि कार्यानारम्भकाले परमाण्वाकाशसंयोगे न विरोधः ; तथाऽपि घटादीनां मूर्तानाममूर्तेसंयोगं ब्रवीषि संयोगजसंयोगं स न स्यादिति भावः । यदि स्पर्शवतोस्सप्रतिघत्वविरोधो न स्यात्तत्राहमेरुमन्दरेति । ननु सप्रतिघत्वविरोधे नीरक्षीरयोरेकनभःप्रदेशवृत्तिः
भावप्रकाशः '* अङ्गीकरोषीति--' द्रव्याणामेकत्र समवायेन समानदेशतां व्यासेधामो न तु संयोगेन' इत्याद्युदाहृतवाचस्पतिवाक्ये व्यक्तमेतत् ॥
- 15.
SADVADTHA