________________
214
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः * आविर्भावतिरोभावजन्मनाशविकल्पवत् । नित्यं जगदिति स्मृत्या '* व्यवस्थाद्वयमीरितम् ।
.आनन्ददायिनी भवत्वित्याह-आविर्भावति । व्यवस्थाद्वयं-- आविर्भावः जन्मेति व्यवस्थाद्वयमित्यर्थः । तथाच सर्वत्र विसृष्टयाद्यङ्गीकारे आविर्भावस्यैव
भावप्रकाशः __1* आविर्भावेत्यादि-इदमुत्तरार्धम् ; तदेतदक्षयं नित्यं जगन्मुनिवराखिलम् । (विष्णुपुराणे १-२२-६०) इति पूर्वार्धम् । अत्र विष्णुचित्तार्याः_ अनन्तस्य न तस्यान्तस्संख्यानं वा (चा)पि विद्यते । इति जीवानामसंख्येयत्वं वक्ष्यति । अतः प्रतिसर्गमन्यून ;
. . . . . नित्यं तत्कार्यतः पृथक् ॥
अव्युच्छिन्नास्ततस्त्वते सर्गस्थित्यन्तसंयमाः । इति वचनात् प्रवाहरूपेण च नित्यम् । आविर्भावतिरोभावौ-संकोचविकासौ । तावेव जन्मनाशौ इति व्याचख्युः । जन्मनाशावेव विकल्प इति वा ताभ्यां विकल्प इति वा ; असत्त्वादिकं न विकल्प इति भावः। 1* व्यवस्थाद्वयं-नित्यत्वव्यवस्थैका जन्मनाशव्यवस्था चापरा ॥ ____ 'नान्योऽवयव्यवयवेभ्यो गुरुत्वान्तरकार्याग्रहणात् ' इति न्यायवार्तिकम् । अत्र तात्पर्यटीका-'अवयवगुरुत्वाद्गुरुत्वान्तरमवयविनः ; तस्य यत्कार्यमवनतिविशेषः तस्याग्रहणादित्यर्थः' इति । अत्र यद्यपि। गुरुत्वान्तरकार्याग्रहणस्यानुमानविधयाऽवयवावयव्यभेदसाधकता न संभवति . अपक्षधर्मत्वादित्यभिप्रेत्य न्यायवार्तिके 'गुरुत्वान्तरकार्याग्रहणादित्येतन्न