________________
सरः] त्रिगुणपरीक्षायां सहव्यवादसाधने स्वसिद्धान्तोत्तिः पुराणोक्तिभावव्यवस्थाच 213
सर्वार्थसिद्धिः एवं पृथिव्याधुपादानं चिन्तितम् । अथ उपादानातिरिक्त कार्यद्रव्यं नास्तीति साध्यते । तत्र अवस्थाभेदमात्रं स्वीकृतम् । अयमेव च सत्कार्यवाद आरम्भणाधिकरणसाध्यः॥
विसृष्टयुल्लासविक्षेपाः कार्याणां कथिताः क्वचित् । कल्पनीया न सर्वत्र परिणामोक्तयबाधतः ॥
आनन्ददायिनी प्रसङ्गात्मिकां सङ्गतिमाह-एवमिति । नन्ववस्थारूपकार्यभेदाङ्गीकारे तस्यावस्थावतो भेदात् 'तदनन्यत्वमारम्भणशब्दादिभ्य' इत्यधिकरणविरोधः । तत्र कार्यमात्रस्याभेदाङ्गीकारादित्याह -- अयमेवेति । तत्रापि कार्यद्रव्यस्यैवाभेदस्साधित इत्यर्थः । ननु कार्य कारणमिति विभाग एव नास्ति ; सतामेव द्रव्याणां विसृष्टयुल्लासविक्षेपैः पुराणादिप्वाविर्भावमात्राङ्गीकारादुत्पत्त्यभावात्साङ्ख्यपक्ष एव युक्त इत्यत्राहविसृष्टीति । विसृष्टिः-विसर्गः; यथा कूर्मादेराकुञ्चितानामवयवानां प्रसारणम्। उल्लासः-विकसनं ; यथा मुकुळीभूतस्य (पद्मादेः) करवीरादेः। विक्षेपः-यथा पिण्डीभूतस्य रजसः सर्वतः स(समर्पणं (जालादेः विस्तारकारणम्)। यद्यपि क्वचिद्विसृष्टयादय उक्ताः; तथाऽपि ते न सर्वत्र कार्येषु; किन्तु कूर्माद्यङ्गप्रकाशनमिव पूर्व विसृष्टप्रच्छन्नेष्वेव। तथाच क्वचित्पूर्वमुत्पन्नस्य नित्यस्य वा भगवद्विग्रहादेराविर्भाव इत्यर्थः । तत्र प्रमाणमाहपरिणामेति ' सदेव सोम्येदमग्र आसीत् ' 'तत्सृष्ट्वा' 'प्रकृतेः परिणामास्ते' 'महदाद्या विशेषान्ताः' इत्यादौ परिणामवचनाबाधाय विसृष्टयादेः काचित्कताकल्पनमिति भावः । ननु परिणामवचनमेव विसृष्टयादिपरं