________________
सर:
त्रिगुणपक्षिायां परमाणुकारणतावादभङ्गः
.211
सर्वार्थसिद्धिः त्वात् । मानोन्मानादिविशेषनिर्धारणं हि तत्र विधित्सितम् । तत्र हैतुकोक्तानुवादमात्रमिह स्यात् । तत्र च संरेणुतः किश्चित्सूक्ष्मं भवतु मा वा भूत् ; दृष्टोपक्रमं विवक्षितसिद्धिरित्यत्राकूतम् । शास्त्रतश्च क्वचिदनन्यथासिद्धात् परमाणुसिद्धावपि रनुमानभङ्गात्परस्य मानभङ्गः। यथा प्रकृत्यायनुमायिनस्साङ्ख्यस्य ॥
शास्त्रैकाविषयत्वे च परमाणोर्न सिध्यति । नित्यस्पर्शादियोगित्वं भूतानां विकृतित्वतः॥ अस्पर्शाण्वंशसंघत्वात् कतिचित्प्रकृतेरतः।
आनन्ददायिनी त्पर्याभावमेवोपपादयति-मानोन्मानादीति । तत्रेति । इदमुपलक्षणंत्रसरेणुतस्सूक्ष्मभागपरिकल्पना च स्यादिति द्रष्टव्यम् । तदिदमाहभवतु मा वा भूदिति-तावतैव माननिर्णयसम्भवादिति भावः । परमाणौ शास्त्रप्रमाणकथनं विवक्षितमित्याह---शास्त्रतश्चेति । ननु यथाकथञ्चित्परमाणुसिद्धिरेवालमित्यत्राह-शास्त्रैकावषयत्व इति । परमाणोनित्यस्पर्शरूपरसगन्धवत्त्वं च तदङ्गीकृतं न सिध्यतीत्यर्थः । तत्र हेतुमाह-भूतानामिति । अणूनां भूतविकृतित्वादित्यर्थः । यद्वा भूतानां परमाणुविकृतित्वाद्विकृतिवत्परमाणुरप्यनित्यरूपादिमानित्यर्थ इत्याहुः । इतरे तु स्पशादीनां भूतविकारत्वात्प्रकृतिभूतपरमाणौ स्पर्शादयो न स्युरित्यर्थ इति वदन्ति । किञ्चाणूनां निरवयवत्वमपि न सिध्यतीत्याह--अस्पर्शेति । कतिचित्–केचन । अम्पण्विंशसङ्घत्वात् अतः प्रकृतेः सकाशात् ।
. 14*