________________
210
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाप
जद्रव्य
सर्वार्थसिद्धिः सर्वव्यापिस्वतस्सर्वज्ञजगत्कर्तृविषयत्वाच्च वाक्यस्य । सूक्ष्मशब्दश्च न परिमाणविशेषनियतः । उक्तं च विभ्वी प्रकृति महीयसश्च महदादीन् प्रकृत्य साङ्ख्यैः-सौक्ष्म्यात्तदनुपलब्धिः' इति । ननु त्रसरेणोरष्टमष्षष्ठो वा भागः परमाणुरिति सर्वानुमतैश्शिल्पिनां शास्त्रैः धर्मशास्त्रैः तन्मूलस्मृत्या च परमाणुसिद्धिस्स्यात् ? तन्न; शिल्पादिशास्त्राणां परमाणावतत्पर
आनन्ददायिनी परं; येन परमाणुसिद्धिमाशङ्केतेत्याह-सर्वव्यापीति । उक्तं चेति--
सामान्यतस्तु दृष्टात् अतीन्द्रियाणां प्रसिद्धिरनुमानात् । इत्यादिना प्रकृत्यादिसिद्धिमुक्त्वा तेषामनुपलब्धिबाधात्सिद्धिर्न स्यादित्याशङ्कय अनुपलब्धिमात्रं न बाधकं ; अपि तु योग्यानुपलब्धिः ; प्रकृते सा नास्ति । कुतः?
___ सौक्ष्म्यात्तदनुपलब्धिः नाभावात् कार्यतस्तदुपलब्धेः । इति महत्स्वपीन्द्रियाग्राह्यत्वमात्रेण सूक्ष्मपदं प्रयुक्तमित्यर्थः । ननु देवताविग्रहादिप्रमाणनिर्णयार्थम्---
जालसूर्यमरीचिस्थं सूक्ष्मं यत्परिदृश्यते ।
तस्याष्टमो वा षष्ठो वा भागोऽणुः परिकीर्तितः । इति । तथा स्वर्णस्तेयादिनिर्णयार्थ स्मृतावपि---
जालसूर्यमरीच्यां यद्भाति सूक्ष्मं त्रुटेः परम् ।
भागोऽष्टमस्तृतीयो वा परमाणुरितीरितः ॥ ..इत्यादिना शिल्पशास्त्रधर्मशास्त्रेषूक्तेः कथं निराकरणम् ? इति शङ्कते
नन्विति । अतत्परत्वादिति-परमाणुविषयतात्पर्याभावादित्यर्थः । ता