________________
xxvi
भावप्रकाशग्रन्थस्तु श्रीलक्ष्मीहयग्रीवदिव्यपादुकासेवक श्रीमइभिनवरङ्गनाथब्रह्मतन्त्रपरकालमहादेशिकैः सानुग्रहं विलिख्य पेष्यमाणः यथायथं मुद्रणाय पर्यकल्प्यत ॥
मुद्रणेऽस्मिन् लेखनेन संवाचनसाहाय्यकरणादिना च उपकृतवतां अस्मत्कोशागारपण्डितानां श्री।। उ॥ वे॥ तिरु।। तिरु।। श्रीनिवासगोपालाचार्याणां च उपकार सुचिरं स्मरिष्यामः ।।