________________
148
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकला
जडद्रव्यं
सर्वार्थसिद्धिः कूर्मावयवदृष्टान्तश्चात्र मन्दः। तत्र ह्याकुश्चनप्रसारणाभ्यां अवयवान्तरावृतानावृतत्वसिद्ध्या भवत्यव्यक्तव्यक्तावस्थाभेदः न तूपादानोपादेयभावात् । न च तत्र कस्यचिदवयवनाशोत्पत्तिव्यवहारः । अतो न कथाश्चिदप्यनुमानादव्यक्तादिसिद्धिः । त्रिगुणपरीक्षायां प्रकृत्याद्यनुमनिानरासः प्रकृत्यादेरागमिकत्वंच
'आगमेन विना सिद्धिस्तन्मात्राणां च दुचा। उद्भवानुद्भवाद्यैस्तु लोके सूक्ष्मादिकल्पना ॥'
आनन्ददायिनी चाविर्भवन्ति ; न तु कूर्मस्तदङ्गानि वोत्पद्यन्ते ध्वंसन्ते चेति' तद्दषयति कूर्मावयवेति तत्र व्यक्ताव्यक्तावस्थाभेदो नोपादानोपादेयभावात् किं त्वावृतत्वानावृतत्वाभ्यां। ततश्च दृष्टान्तदाान्तिकयोर्वेषम्यमिति भावः । नचेति । उपादानोपादेयस्थले नाशोत्पत्त्यव्यवहारादिति भावः ।
___ त्रिगुणपरीक्षायां प्रकृत्याद्यनुमाननिरासः प्रकृत्यादेरागमिकत्वं च पूर्वं महदादीनां स्वरूपं किमागमेनानुमानेन वा सिद्धमिति विकल्प्य स्वरूपासिद्धिरुक्ता इदानीं तन्मात्राणां महदादिवद्वत्तिभेदरूपलिङ्गाभासोऽपि नास्तीत्याह--आगमेनेति । ननु तन्मात्राणां यदि सूक्ष्मत्वेनाप्रत्यक्षत्वं तथा सति लौकिकानां तद्गहणाभावेन क्वचिदपि सूक्ष्मादिव्यवहारो न स्यादित्यत्राह-उद्भवानुद्भवाद्यैस्त्विति । उद्भवः स्फुटतरप्रकाशः । अनुद्भवस्तदभावः । न्यूनपरिमाणाधिकपरिमाणादिकमादिशब्दार्थ इत्यन्ये । ननूद्भूतशब्दादिकं भूतं अनुद्भतशब्दादिकं तन्मात्रं उद्भवोऽनुद्भवश्च लोकसिद्धावित्यत्राह-उद्भवेति सिध्यतां नामोद्भवानुद्भवौ लोके; तथाऽपि एकस्मिन्नेव तत्वे तौ सूक्ष्मस्थूलविभागं कुरुतः न तु तत्वान्तरत्वमापादयेतामिति