________________
सर:]
त्रिगुणपरीक्षायां प्रकृत्यनुमाननिरासः प्रकृत्यादेरागमिकत्वं च
147
सर्वार्थसिद्धिः रिमाणबहुकार्योत्पत्तौ प्रतिकार्य कारणस्य कृत्स्नैकदेशविनियोगविकल्पे कार्यान्तराणामनुत्पत्तिर्वा कारणस्य सावयवत्वं वा स्यादिति चर्चा स्यात् । श्रोते तूपादाने 'श्रुतेस्तु शब्दमूलत्वात्' इति समाधानं सूत्रितम् । '* अपिच क्षीरदधिरुचकस्वस्तिकादिन्यायेन स्वस्यैव पूर्वावस्थाविशेषवतस्स्वोपादानत्वे सिद्धे किमन्यत्र कुत्रचिदविभागादिगवेषणया ? । घटादयोऽपि मृत्पिण्डादिषु तत्तदंशैरेवोपादीयन्ते न तु पिण्डादिभिः ।
आनन्ददायिनी वोपपादयति । प्रतिकामिति । कृत्स्नविनियोगपक्षे कार्यान्तराणामनुत्पत्तिः एकदेशविनियोगपक्षे सावयवत्वमित्यन्वयः। कार्यान्तराणामनुत्पत्तिरित्यत्र स्वल्पपरिमाणानामप्यनुत्पत्तिर्बोध्या । पक्षद्वयानुपपत्तौ प्रकृत्युपादानत्वं वा तद्विशिष्टब्रह्मोपादानत्वं वा कथं युप्माभिरङ्गीक्रियते इत्यत्राह-श्रौते विति। श्रुतान्यथानुपपत्त्या यागादावदृष्टकल्पनावदत्राप्यव्यापिपरिणामहेतुसंयोगकल्पनासम्भवादित्यर्थः । अपिचेति ननु महदादेरेव सुक्ष्मरूपावस्थाङ्गीकारे सैव प्रकृतिरिति चेन्न; तन्मते · महदादीनां सूक्ष्मरूपेण स्थित्यङ्गीकारेण प्रकृतस्ततो भिन्नत्वात् । ननु घटादयो हि स्वभिन्नमृत्पिण्डादुपादीयमानास्ततो विभक्ता अविभक्ताश्चेति व्याप्तिरस्तीति चेत्तत्राह--घटादयोऽपाति एवं च तत्तदंश एवोपादानं न तु ततो विभक्तांश इति भावः । अत्र यदुक्तं वाचस्पतिना विभागाविभागनिदर्शनतया-'यथा हि कूर्मस्याङ्गानि कूर्मशरीरे निविशमानानि तिरो भवन्ति निस्सरन्ति .
.. भावप्रकाशः. णामेन कार्यता लक्षणपारणामेन कारणता चेत्यनुचितमित्याह 'अपिचेति।
10*