SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ 136 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य - सर्वार्थसिद्धिः *'मैवं ; यदि तैलाश्रयतिलवदव्यक्ता वास्थाश्रयस्वीकारः तदा पूर्ववत्स्वेष्टतत्वसंख्याविरोधः। अथ न ; विषमस्तिलदृष्टान्तः । नोदाहरणमादर्तव्यं ; क्षीराबधिवत् आनन्ददायिनी मैवमिति । सत्वाद्यात्मकस्याव्यक्तस्यापि नानात्वान्नैकोपादानसिद्धिरिति भावः। किंच तैलाश्रयस्य तिलस्यापि शक्तयाश्रयस्य कार्यत्वात्तद्वदेव महदादिशक्त्याश्रयस्यापि कार्यत्वनियमात्तस्य कारणशक्तितः प्रवृत्त्यनङ्गी कारे च तस्य कारणस्यापि द्रव्यान्तरत्वात्तत्वसख्याविरोध इत्याह-यदि तैलाश्रयति । अव्यक्तावस्थस्याश्रय इत्यर्थः । अथ नेति । अव्यक्तावस्थस्याश्रयो यदि न स्वीक्रियत इत्यर्थः । विषम इति तिलस्याव्यतावस्थाश्रयस्यैक (व कारण)त्वादिति भावः । यद्यप्ययमुत्कर्षसमभेदः व्यञ्जनवत्त्वापादनवत् ; तथापि नियतस्य सहचारस्य सत्त्वे तादृशो नेति भावः । समाधानमाशङ्कते-नोदाहरणमिति । तथा च सूक्ष्मावस्थस्यैकस्यैव जगदुपादानत्वाङ्गीकारे न तत्वाधिक्यं ; ततोऽवस्थान्तरस्य सूक्ष्मत्वेन यावतीनां तादृशीनावस्थानामेकत्वेन भेद भावप्रकाशः मेव हि सिकताभ्यस्तिलानां तैलोपादानानां भेदो यदेतेष्वेव तैलमस्त्यनागतावस्थं न सिकतासु' इति वाचस्पत्युक्तदृष्टान्ते अनागतावस्थतेलादतिरिक्तः कठिनभागस्तिलेषु वर्तते दान्तिके त्वनभिव्यक्तं महत्तत्वमेव प्रकृतिरिति नोभयोरानुरूप्यमिति दूषयति *'मैवमित्यादिना ॥
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy