________________
सरः] .
त्रिगुणपरीक्षायांप्रकृत्यनुमाननिरासः
135
सर्वार्थसिद्धिः ननु कारणशक्तिर्नाम सत्कार्यपक्षे * न कार्यस्याव्यक्तत्वादन्या यथा तिले तैलस्य ; अतस्सर्वकार्योपादानाव्यक्तसिद्धिरिति ;
आनन्ददायिनी तीति भावः । ननु सांख्यपक्षे कारणे शक्तिः कार्यमेव; सा चाव्यक्तादनन्यैव शक्तिविशिष्टस्यैवाव्यक्तत्वात् । तथा च महतस्तत्कारणाद (स्यज्ञात्र) भिन्नता । तथाहङ्कारस्यापि महदभिन्नत्वमेवमिन्द्रियादिकार्याणामपि महदभिन्नतया सर्वस्यापि महदुपादानभूतैककारणतया अव्यक्तसिद्धिरिति शङ्कते-नन्विति ।
भावप्रकाशः 'सन्ति प्रागप्यवस्थाः' इत्यत्र वक्ष्यमाणरीत्या धय॑श इव धर्माशेऽपि सत्कार्यवादस्य साङ्ख्यैरङ्गीकारेण उभयोर्नित्यतया ‘परमार्थतस्त्वेक एव परिणामः । धर्मिस्वरूपो हि धर्मो धर्मिविक्रियैवैषा धर्मद्वारा प्रपञ्चयते' इति योगभाष्ये धर्धलक्षणावस्थापरिणामानां तत्वत एकत्वाभिधानेन तन्नयायेन परिणामस्य गुणत्रयस्वरूपत्वेन परमार्थतो बहुत्वस्यैव वाच्यत्वेनैकत्वासम्भवात् मृद्धटवत्तन्तुपटवद्वाऽत्र परिणाम इति युक्तया निश्चयासम्भवेनैवमप्यप्रयोजकत्वादिति चार्थः ।
* न कार्यस्याव्यक्तत्वादन्येति । धर्मधर्मिणोरभेदेनानाभव्यक्तकार्यमेव शक्तिः ; तच्च कारणमेव । अभेदेऽपि भेदव्यवहारो नीलघटयोरिव भेदविवक्षया युज्यते । शक्तिमतः कारणत्वकल्पनापेक्षया शक्तेः कारणत्वे लाघवादरिक्तशक्तिकल्पने मानाभावाच्चेत्ति भावः । अतिरिक्तशक्तिसाधने प्रमाणादिकं 'इत्यादिघोषो विरमति विदिते शब्दतश्शक्तितत्वे' इत्यद्रव्यसरे वक्ष्यते इत्यभिप्रेत्य प्रकृते 'अय