________________
सर:]:
त्रिगुणपरीक्षयां प्रकृत्यनुमाननिरासः
111
सर्वार्थसिद्धिः येच *'भेदानां- परिमाणादित्यादिना हेतव उक्ताः।
आनन्ददायिनी मानवदित्यर्थः । वैदिकहिंसा स्वपीडनजनिका परपीडनात्मकत्वादिति वा; वैदिकहिंसा स्वविषयसरूपफलप्रदा क्रियात्वात् इति वा प्रयोगो द्रष्टव्यः । पशुदहनादौ च परस्त्रीगमनादौ च व्यभिचार इति भावः ।
भेदानां परिमाणात् समन्वयात् शक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ।।
कारणमस्त्यव्यक्तं . . . .। इति सांख्योक्तानुमानान्तराण्यपि दूषयितुमनुभाषते-ये चेति । भेदानां - महदादिकार्याणां कारणमव्यक्तमस्ति कुतः परिमाणात् परिच्छि..
भावप्रकाशः चेत् तर्हि श्रीभाष्यायुदाहृतश्रुतिसिद्धान्तर्यामित्वादिधर्मान्यथानुपपत्त्या संकोचविकासात्मकावस्थादिसंबन्धस्यैव सङ्गशब्दार्थत्वौचित्येनैतन्मतेऽ. प्यनुपपत्त्यभावात् । कारणद्रव्येषु रूपायभावेऽपि न्यूनाधिकमावने कारणद्रव्याणामन्योन्यसंयोगस्यैव तन्मात्रारूपादेः कारणतायाः स्वेनैव स्वीकृततया अत्रापि विलक्षणपरिणामस्यैव महदादिगतसुखदुःखमोहप्रयोजकत्वसंभवेन महदादिगतसुखदुःखमोहानां स्वकारणगतसुखदुःखमोहान्विनाप्युत्पत्तिसंभवेनाप्रयोजकत्वाच्च । . * भेदानां परिमाणादित्यादिनेति । आर्यामिमामित्थमवतारयामास वाचस्पतिः-स्यादेतत् 'व्यक्ताद्वयक्तमुत्पद्यते' इति कणभक्षाक्षचरणतनयाः। परमाणवो हि व्यक्ताः तैद्वर्यणुकादिक्रमेण . पृथिव्यादिलक्षणं कार्य व्यक्तमारभ्यते । पृथिव्यादिषु च कारणगुणक्रमेण रूपाद्युत्पत्तिः । तस्मात व्यक्तात् व्यक्तस्य तद्गुणस्य चोत्पत्तेः कृत