________________
110
सव्याख्यसर्वार्थसिा सहिततत्वमुक्ताकलाप
जद्रव्य
सर्वार्थसिद्धिः वृश्चिकादिषु व्यभिचारात् । तदभिप्रायं च सूत्रं '" दृश्यते तु" इति । नापि षष्ठः; तस्य त्वद्बुद्धिमात्रारूढस्य अदृष्यत्वात् । लोकदृष्टस्य तु कस्यचिदुक्तो (दत्तो) त्तरप्रायत्वात् । अतः कर्मणां स्वविषयसरूपफलप्रदत्वानुमानवत् कार्याणां स्वगुणसरूपगुणकारणकत्वानुमानमपि अनैकान्त्यदुःस्थमिति ।
आनन्ददायिनी .. . व्याससूक्तिसम्मतिमाह --- तदभिप्रायमिति । · कार्यकारणयोर्गोमयवृश्चिकयो_लक्षण्यं दृश्यत इत्यर्थः । स्वविषयसरूपति-स्वस्य हिंसादोर्विषयो क्वादिस्तजन्यदुःखादिकं वा तत्सरूपफलप्रदानानु
. भावप्रकाशः ...। 1* ' दृश्यते तु इति' इति-अत्र भाष्यं- दृश्यते हि माक्षिकादविलक्षणस्य कृम्यादेन्तस्मादुत्पत्तिः । ननूक्तमचेतनांश एव कार्यकारणभावात्तत्र सालक्षण्यं ; सत्यमुक्तं; न तावता कार्यकारणयोर्भवदभिमतसालक्षण्यसिद्धिः इत्युपक्रम्य नहि घटमकुटादिष्विव वस्त्वन्तरव्यावृत्तिहेतुभूतासाधारणाकारानुवृत्तिाक्षिकगोमयवृश्चिकादिषु दृश्यते' इति । एतेन अचेतनत्वेन सुखदुःखमोहात्मकत्वेन गुणवद्व्यत्वेन वा सादृश्यं विवक्षितमिति. वंशीधरवचनमपि दत्तोत्तरम् । येन केनचित्सारूप्यं तु जगद्ब्रह्मणोरपि सत्तादिसाम्यसभवाद्भांष्य एव . न विवक्षाहमित्युक्तम् । असङ्गश्रुत्या ब्रह्मणि परिणामाङ्गीकारो न संभवतीति वंशीधरोक्तं तु न युक्तं ; तथा सति असङ्गश्रुतिविरोधेन तन्मते प्रकृतिपुरुषयास्संयोगाङ्गीकारस्यैवासंभवप्रसङ्गात् । :: कूटस्थस्य सर्वमूर्तसंयोगित्वरूपविभुत्वानुपपत्तेः । सामान्यगुणातिरिक्तधर्म एव परिणामः . तद्धेतुसंबन्ध एवं सङ्गशब्दार्थ इति वंशीधरोक्तया तन्मते न दोष इति