________________
सरः]
द्रव्यातिरिक्तधर्माक्षेपपरिहारः
सवार्थसिद्धिः । यात् । न चान्यत् ; अनवस्थानादेवेति चेत् तन्न, सर्वेषां धर्माणां निधर्मकत्वानङ्गीकारात् । कश्चिद्धर्मोऽपि धर्मी स्फुटं । स्फुटदृष्टं हि नापह्रोतव्यं । त्वयापि हेतुसाध्यादिधर्माणां पक्ष
आनन्ददायिनी अनवस्थानादेवेति-स्वीकृतस्वीक्रियमाणधर्मवर्तिधर्मस्वीकारेऽनवस्था स्यादिति ;
धर्म समर्थयन् मूर्खः तेन धर्मेण बाध्यते ।
कवाटविवरे पुच्छं प्रेरयन् जम्बुको यथा ॥ इति न्यायस्स्यादिति भावः । सिद्धान्ती परिहरति-तन्नेति । सर्वेषामिति जातिगुणक्रियादिवृत्तीनामेव निर्धर्मकत्वस्वीकारादिति भावः । तेषां च शब्दबोध्यत्वादिकमुपपादयिष्यते । स्फुटदृष्टमिति --
धर्मत्वेन प्रतीयन्ते स्पष्टं जातिगुणक्रियाः ।
तत्तल्लक्षणयोगेन परस्परविलक्षणाः ॥ इति प्रतित्वादित्यर्थः । अपसिद्धान्तमेव द्रढयति-त्वयाऽपीति ।
भावप्रकाशः च धर्मवत्त्वेतरव्यावृत्तत्वाद्यङ्गीकारे गोवृत्ति गोत्वं गोत्ववान् गौरिति वा गोवृत्तिगोत्ववानित्यादिर्वाऽभिलापः स्यात् ; गौरिति प्रतीतौ च गोत्वस्य निर्धर्मकस्य भानमनुभवसिद्धं ; तद्विरुध्येत । परस्परधर्मवत्त्वेन इतरव्यावृत्तिधीस्वीकारे परस्पराश्रयप्रसङ्गश्च । किंच गवि स्वेतरतत्तद्भदसामान्यं च स्वधर्मभूतगोत्वरूपं गोत्वे स्वेतरतत्तद्भेदसामान्यं च गोत्वव्यक्तिरूपमेवेति सिद्धान्तविरोधः । तत्रापि गोत्वनिष्ठभेदस्य गोवृत्तित्वरूपतायाः आधेयतासंबन्धेन गोरूपताया वा अङ्गीकारस्यैवोक्त
*5