________________
(66
सव्याख्यसर्वाधीसद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः द्वितीये तु येन धर्मेण धर्मस्सधर्मकः सोऽपि पूर्ववद्धर्मान्तरेण धर्मी स्यादित्यपरापरापेक्षायामनवस्था । द्वित्रादिपर्वमात्रे विश्रम इति व्यवस्थाभावात् । धर्मत्वं च धर्माणां भावः। अतस्तस्यापि धर्मत्वं वाच्यं । न चैतत्तस्यात्मैव आत्माश्र
आनन्ददायिनी विषयत्वमित्यर्थः । यावद्दर्शनं व्यवस्था भविष्यतीत्याशङ्कय दर्शनमसिद्धमित्याह...--द्वित्रादीति । ततश्च .. .
अस्मानुपालभ्य पुनः कुर्वतो धर्मविप्लवम् ।
तव वाक्यमिदं हाम्यं श्वश्रूनिर्गच्छवाक्यवत् ।। इति न्यायस्स्यादिति भावः । प्रकारान्तरेणानवस्थां प्रतिपादयतिधर्मत्वं चेति । धर्माणां भावो धर्मान्तरं न तु स्वरूपमित्यर्थः । ततः किमित्यत्राह---अत इति । धर्मत्वं वाच्यामिति-तत्रापि धर्मत्वे धर्मत्वं नाम धर्मान्तरं वाच्यमित्यर्थः। ननु सकलधर्मवर्ति धर्मत्वं स्वात्मैव ; अन्यथा सकलधर्मवृत्तित्वव्याघातादित्यत्राह. ....न चेति । स्वनिष्ठत्वाभावे सकलधर्मवृत्तित्वव्याघातवत् स्वस्य स्ववृत्तित्वेऽपि व्याघातस्स्यादित्यर्थः ।
भावप्रकाशः सर्वत्र तात्विकधर्मभिभावाङ्गीकारोऽयुक्तः सर्वप्रतीतिषु खण्डनयुक्तया विशिष्टविषयकत्वानभ्युपगमौचित्येन तात्विकधर्मधर्मिभावासिद्धया निर्धमकमेव सर्व प्रसज्यतेति सूचितम् । मूले अभिलापादीत्यादिपदस्य इतर. व्यावृत्तत्वादिरर्थः । धर्मो हि धार्मेण इतरल्यावृत्तिधीहेतुः । धर्मे व्यावर्तकधर्माङ्गीकारे तस्येतरल्यावृत्तत्त्वेन निश्चयासंभवेन तेन धर्मिणोऽपतिरव्यावृत्तत्वेन निर्धारणं न संभवतीति भावः । ननु गोत्वेन गोः गवा गोत्वस्य