________________
सरः]
द्रव्यसाधनम्
सर्वार्थसिद्धिः 1 * दृष्टत्वाद्युगपत्क्रमशोऽपि नः । प्रतिसम्बन्ध्यनेकत्वं यथा नैक्यस्य बाधकम् ।
आनन्ददायिनी दृष्टत्वादिति--रूपवान् गन्धवान् इति दृष्टत्वादित्यर्थः । क्षणिकबुद्धिवादिनस्ते युगपदेवानेकाकारः ; नः-अस्माकं युगपत्क्रमशोऽपि ; श्यामघटे क्रमशो रक्तताद्युत्पत्तिदर्शनात । प्रतिसंबन्धीति-एकस्यापि देवदत्तस्य प्रतिसम्बन्ध्यनेकत्वं-भ्रातृपुत्रतातमात्राद्यनेकत्वं यथा तदैक्य
भावप्रकाशः स्वरूपाभेदः इति' 'जनकत्वं नाम न वस्तुस्वभावः ; अपि तु तद्धर्मः। धर्मश्च धर्मिणो वस्तुतो भिद्यते' इति च । * 1 दृष्टत्वादिति-दर्शनाप्रामाण्ये च
अविभागोऽपि बुद्धयात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ इति वदन् योगाचारः ।
अलातचक्रनिर्माणस्वप्नमायाम्बुचन्द्रकैः । धूमिकान्तःप्रतिश्रुत्कामरीच्यत्रैस्समो भवः ॥
(चतुश्शतिका ३००) फेनपिण्डोपमं रूपं वेदना बुद्धदोपमा । मरीचिसदृशी संज्ञा संस्काराः कदलीनिभाः ।।
(माध्यमिकावृत्तिः) १०) इन्द्रियैरुपलब्धं यत् तत्तत्वेन भवेद्यदि । जातास्तत्वविदो बालाः तत्वज्ञानेन किं फलम् ।।
(बोधि+पं ३७५) ...