________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः * तथा बाह्योऽपि
आनन्ददायिनी इति त्वदुक्तेरयोगात् । अनीलादिरूपत्वे इत्युत्तरत्र छेदः । तथा चाक्षुषमेवेदं ज्ञानं इति व्यवस्थासिद्धयर्थ हेत्वाकारोऽप्यपेक्ष्यः । एवं फलाकारोऽप्यूह्यः । बाह्योऽपि-घटपटादिरपीत्यर्थः ।
--
भावप्रकाशः प्रतिनियमः । आलोकात्सहकारिप्रत्ययात् स्पष्टार्थता । तत्र ज्ञानजन्मनि समनन्तरप्रत्ययो विज्ञानमुपादानकारणं । आलम्बनप्रत्ययोऽर्थः सहकारिकारणम् । अर्थजन्मनि सोऽर्थ उपादानकारणं । तज्ज्ञानं सहकारिकारणं । ज्ञानार्थयोस्स्वभावत एव विषयविषयिभावः । जन्यजनकभावोऽपि स्वभावात्मक एव । स च सम्बन्ध्यनतिरिक्त इति तन्मतम् ।।
* तथा बाह्योऽपीति-भिन्नस्समेतीत्यनुषङ्गेणान्वयः । भिन्नैः रूपस्पर्शादिभिः ज्ञानस्यार्थेन अधिपत्यादिना च स्वभावाख्यसम्बन्धवत् धर्मस्य धर्मिणापि स्वभावाख्यसम्बन्धाङ्गीकारेऽपि ज्ञानस्यार्थाधिपत्यादिभिरिव धर्मधर्मिणोरप्यत्यन्तभेदो दुस्त्यज एवेति भावः । तदाह वाचस्पतिः सविकल्पकप्रत्यक्षत्वसमर्थने तात्पर्यटीकायाम्-----
'अपि च रूपविज्ञानं विषयग्रह्णधर्म नानापरमाणुविषयं न परमाणुस्वभावः । तत्स्वभावत्वे वा तेषां सर्वान् प्रत्यविशेषात् सर्वेरेव ते परमाणवो विदितास्स्युः । नचासंबद्धा एव स्वज्ञानेन रूपपरमाणवो विषयास्तस्येति वाच्यम् ; असंबद्धस्य विषयत्वेऽतिप्रसङ्गात् । स्वभाव एवार्थज्ञानयोः सम्बन्धो यदर्थो विषयो ज्ञानं च विषयीति चेत् ; हन्त उपाध्युपाधिमतोरपि स्वभाव एव सम्बन्धोऽस्तु तथापि विज्ञानार्थवत् न