________________
___ सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः दधीरस्तु मण्डूकवसाक्तदृष्टेवशेषु उरगबुद्धिवदिति चेन्न । तत्तदोषशक्तथा तत्तद्धान्तिभेदसिद्धेः--कल्प्याकारस्य क्वचित्संभवाच्च । चक्षुरदिस्वभावा एवात्रापि रूपादिभ्रान्तिहतवो दोषा इति चेन्न; सर्वकल्पनाधारे स्वलक्षणेऽपि अनाश्वासप्रसङ्गात् । ततश्च इन्द्रियस्वभावभेदोऽपि दुर्वचः; अधिष्ठानाकाङ्क्षायामपि बुद्धथैव चरितार्थत्वात् । तथाच इन्द्रियस्वभाव
आनन्ददायिनी रोप्येरन् इत्यर्थः । द्वितीयं पक्षमाशङ्कते--उपाधीति । तत्तदोषेतिन चात्रेन्द्रियस्वरूपभेदतदोषव्यक्तीनां सिद्धिरिति भावः । ननु प्रतीतिवैजात्यं सिद्धं कारणादिवैजात्यं साधयतीत्यत्राह-कल्प्याकारस्येति । वैजात्यं विषयकृतमिति तद्भान्तिरन्यत्र तसिद्धिसापेक्षेति भावः । ननु चक्षुरादिस्वभावास्सिद्धाः। त एव दोषा अध्यासहेतवः ! नचान्यत्राप्रसिद्धस्यारोपानुपपत्तिः ; आरोप्यज्ञानस्याहेतुत्वात्, अन्यथा कदाचिदपि सर्पदर्शिनो मण्डूकवसाञ्जनाक्तनेत्रस्य वंशे सर्पभ्रमाभावप्रसङ्गादिति शङ्कते चक्षुरादि स्वभावा एवेति । चक्षुरादीनामेव दोषत्वे स्वलक्षणस्यापि सिद्धिर्नस्यात् ; दोषजन्यतया निर्विकल्पस्यापि प्रामाण्याभावप्रसङ्गादिति परिहरात नेति । ततश्चेतिधर्मर्मिणोरुभयोरपि कल्पितत्वप्रसङ्गात्तदुभयातिरिक्तपदार्थासंभवाच्च न पारमार्थिकत्वं ग्राहकरूपभेदस्य वक्तुं शक्यमित्यर्थः । ननु निरधिष्ठानभ्रमानुपपत्तथैव चक्षुरादीनां दोषत्वं प्रतिनियतमित्यत्राहअधिष्ठानेति-बुध्यैवेति-योगाचारवत्तत्तत्पदार्थविषयबुध्यैव तेते पदार्थाः कल्प्यन्तामित्यर्थः । (अधिष्ठानबुद्धिरेवाधिष्ठानमस्तु) कल्पनालाघवाञ्च त्वत्पक्षादप्ययं पक्षो ज्यायानित्याह-तथाचेति । बुद्धिशक्तिः बुद्धि
-