SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ सर:] द्रव्यसाधनम् तत्वमुक्ताकलापः प्रसङ्गात् ॥८॥ सर्वार्थसिद्धिः हि ग्राह्याकारभेदात् कल्प्यते ; तदसिद्धौ कथं तद्राहकभेदक्लप्तिः? तदभावे च कथं तत एव ग्राह्याकारभेदक्लप्तिरिति ? इह तु मध्ये बुद्धिभेदप्रवेशे चक्रकं । अस्तु कारणभेदादिन्द्रियभेदक्लुप्तिरिति चेन; इन्द्रियवैजात्यव्यवस्थापकस्य तस्यानुपलम्भात् । तत एव तत्क्लुप्तौ तत्रापि मिथस्संश्रयात् । ननु दर्पणादिग्राहकभेदागाह्ये सव्यदक्षिणविपर्यासः । पृथुत्वाणुत्वविमलत्वमलिनत्वकल्पना च दृष्टेति चेत् सत्यं ; दर्पणादेस्तचर्माणां च भेदेन दृष्टत्वात् तदधीनाध्यासभेदो यथादर्शनमङ्गीक्रियते । अत्र तु न तथा, अक्षेषु च ते बहिः कल्पनीयानां रूपादीनामसंभवात् । उपाधिज्ञाननिरपेक्षेयं औपाधिकभे ___आनन्ददायिनी कल्प्यत इति—ज्ञायत इत्यर्थः । ग्रहणमेदागाहकभेदः कल्प्यतामित्यत्राह-मध्ये इति । बुद्धर्भेदो न जातिकृतः ; एकावषयप्रत्यक्षानुमित्योरिव समानव्यवहारप्रसङ्गात्। अपितु विषयकृतः। स च न संभवति; ग्राहकभेदज्ञानायत्तत्वात् । तथाच इन्द्रियभेदज्ञाने विषयभेदारोपः ततश्च विज्ञाने भिन्नविषयत्वज्ञानं तत इन्द्रियभेदज्ञानमिति चक्रकमित्यर्थः । ___ इन्द्रियेति–तथाविधकारणस्यानुपलम्भात्कल्पनं इन्द्रियवैजात्येन इंन्द्रियवैजात्यं च तेनेत्यन्योन्याश्रय इत्यर्थः । ननु तर्हि व्यञ्जकभेदात् क्वापि धीभेदो न स्यात् इति शङ्कते-नन्विति । दृष्टान्तदा - न्तिकवैषम्येन परिहरति—सत्यमिति । सत्यं ; मालिन्यादयो भेदेन दृष्टा आरोप्यन्ते रूपादयस्त्वक्षेषु तदन्यत्र वा न गृहीताः कथमा 4*
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy