________________
सरः]
द्रव्यसाधनम् mm
सर्वार्थसिद्धिः इति * तदपि मन्दं; अन्वयव्यतिरेकसिद्धकारणादिवचित्र्यनिबन्धनस्वभावभेदवतामुपाधीनां परस्परव्यभिचा(र)रि वृत्ति
न आनन्ददायिनी मात्रमस्य न स्वरूपं ; अपि तु स्पर्शवत्त्वमपि । तथाच रूपवत्त्वादिसमस्तधभैरभिन्नात्मा धर्मी । तथाच यदैकधर्मवत्तया गृह्यते तदा सर्वधर्मात्मनापि गृहीत एव ; स्वरूपे ग्रहणाग्रहणासंभवात् । ततश्चोपकार्यस्य धर्मस्य आनिश्चितः को भेदस्स्यात् अनिश्चितांशस्स्यात् - रूपस्पर्शादीनां सर्वेषां एकात्मत्वेनागृहीतांशाभावादिति धर्मधर्म्यङ्गी। कारेऽपि भाताभातांशानुपपत्तेः संशयाद्यनुपपत्तिस्समेत्यर्थः । उपाधीनामिति—न तावद्रूपस्पर्शवद्धर्म्यभेदमात्रेण रूपादीनामभेदः ; अन्वयव्यतिरेकसिद्धभिन्नकारणकानां रूपादीनां घटपटयोरिवैक्यासंभवात् । नच धर्मोपकारशक्तीनामित्युक्तदूषणं संभवति ; अन्वयव्यतिरेकसहकृत- . प्रत्यक्षादिप्रमाणैः कश्चिदेव रूपादीनां धर्मीति नियमसंभवात् । अन्यथा क्षणसंतानपक्षेऽपि सर्वक्षणसंतानोऽपि सर्वस्य किं न स्यात् ? इति
भावप्रकाशः नानोपाध्यु . . . . . . . . . दनिश्चितः एकोपकारके ग्राह्ये नोपकारास्ततोऽपरे ।
दृष्टे तस्मिन्नदृष्टेऽपि तद्गहे सकलग्रहः ॥ इति । * तदपि मन्दमित्यादि--एतद्विस्तरः प्रत्यक्षलक्षणन्यायवार्तिकतात्पर्यटीकायां 'नचैकोपाधिना सत्त्वेन विशिष्यतस्मिन् गृहीते उपाध्यन्तरविशिष्टतद्गृहप्रसङ्गः' इत्यादौ द्रष्टव्यः ।
SARVARTHA.