________________
4R
संव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः धर्मोपकारशक्तीनां भेदे तास्तस्य किं यदि । नोपकारस्ततस्तासां तथा स्यादनवस्थितिः ॥ * नानोपाध्युपकाराङ्गशक्तयभिन्नात्मनो ग्रहे । सर्वात्मनोपकार्यस्य को भेदस्स्यादनिश्चितः ॥
आनन्ददायिनी संपत्संपदनुबन्धः ; किन्तु विपदो विपदनुबन्ध एवायमिति प्रतिपादनार्थमिदं पद्यमवतीर्ण । धर्मेति-अयमर्थः धर्मविषयोपकारार्थं याश्शक्तयो मया आपादिताः तासां धर्मिणा भेदोऽभेदा वा ? आये तासामपि शक्तीनां धर्मत्वं वाच्यं धर्मिणश्च तद्वत्त्वं । ततश्च तासां शक्तीनां ततो-धर्मिणः उपकारो यदि न; तदा किं ता अस्य स्युः? अन्येषामपि किं न स्युः। न झनुपकारकस्तद्वानाम । अस्तु तर्हि तत्राप्युपकारश्शक्तिश्च ; तत्राह-तथा स्यादितित्रिचतुरकक्ष्याविश्रमे नियामकभावात् । अस्तु तर्हि
स्वभावनियमाभावादुपकारोऽपि दुर्घटः। इति न्यायेनाभिन्ना इति द्वितीयः पक्षः ; तत्राह-नानोपाधीति । उपकारानभूता शक्तिः उपकारानशक्तिः । अयं मावः-रूपवत्त्व
भावप्रकाशः * 'तास्तस्य किं' 'यदि नोपकारः' इत्यत्र तासां तत उपकारो यदि न तास्तस्य किं इति योजना।
___2* नानोपाधीति-प्रत्यक्षलक्षणन्यायवार्तिकतात्पर्यटकायां च कारिकाशयवर्णनपूर्वकः इत्थं कारिकाक्रमो दृश्यते
" यस्यापि नानोपाहिकाऽर्थस्य भेदिनः ।