SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ सरः] द्रव्यसाधनम् 33 सर्वार्थसिद्धिः विशिष्टस्वरूपमेवेत्यपि निरस्तं; विशेषणविशेष्यतत्संबन्धातिरिक्तविशिष्टायोगात् । द्वितीये कथं प्रत्यभिज्ञात्मकार्थक्रियाकारित्वम् ? निरन्तरस्वरूपं संघात इति पक्षेऽपि प्रत्येकपक्षवत् नेन्द्रियान्तरेण प्रतिसन्धिस्स्यात् । . आनन्ददायिनी विशेषणविशेष्येति-तथा च द्रव्यवादसधर्मकत्वयोः प्रसङ्ग इति भावः । द्वितीय इति—यद्यपि शुक्तिरूप्यस्यापि तदिदमिति प्रत्यभिज्ञाविषयत्वमस्ति; तथाऽपि प्रत्यभिज्ञाया अबाधितत्वेन प्रमात्वात् तन्मते अर्थजत्वस्यावश्यकत्वे तज्जनकत्वेनार्थस्यार्थक्रियाकारित्वादसत्वं न स्यादिति भावः । नन्वस्मिन् पक्षे व्यवधानाभावसहितं स्वरूपं संघातः संयोगस्य नैरन्तर्यरूपत्वाङ्गीकारात् । अतो न संसर्गाख्य धर्मस्वीकार इति पक्षमनूध दूषयति-निरन्तरेति-प्रत्येकपक्षवदिति-उभयेन्द्रियग्राह्यस्यैकस्याभावात् । न च नैरन्तर्यरूपाभावस्यैवोभयन्द्रियवेद्यता ; तथाऽप्युभयोर्निरूपकयोरग्रहणे उभयनैरन्तर्यस्यापि ग्रहणासंभवात् । वस्तुतस्तस्य तुच्छतया प्रत्यभिज्ञाक्रियार्थक्रियाकारित्वं न युक्तं ; अन्यथा तदादाय सधर्मकत्व भावप्रकाशः क्रियासामर्थ्यलक्षणं । तस्य भावस्तस्मात् । वस्तुशब्दः परमार्थसत्पर्यायः । तदयमर्थः–यस्मादर्थक्रियासमर्थ परमार्थसदुच्यते तस्मात्स एव परमा र्थसन् । तत एव हि प्रत्यक्षविषयादक्रिया प्राप्यते ; न विकल्पविषयात् । अत एव यद्यपि विकल्पविषयो दृश्य इवावसीयते तथाऽपि न दृश्य एव; ततोऽर्थक्रियाभावात् दृश्याच भावात् । अतस्तदेव स्वलक्षणं ; न विकल्पविषयम् ॥ इति । SARVARTHA.
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy