________________
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः संघातादेरयोगादवगमयति सा वस्तु रूपादितोऽ
सर्वार्थसिद्धिः । स्वरूपं तस्य प्रतिसन्धानविषयत्वं च न युज्यत इत्याह संघातादेरयोगादिति । संघातोऽपि संघातिस्वरूपस्तदन्यो वा? पूर्वत्र न प्रतिसन्धानपदं। द्वितीये सत्यः असत्यो वा? आये द्रव्यवाद एव वरं । संसर्गाख्यधर्मस्वीकारो वा । तेन परस्पर
आनन्ददायिनी न प्रतिसन्धानपदमिति --- न प्रत्यभिज्ञाविषय इत्यर्थः । संघातिस्वरूपाणां प्रतिनियतेन्द्रियग्राह्यत्वादिति भावः । द्रव्यवाद एव वरमितिअवयव्यादिवद्वत्तिविकल्पदुष्टाप्रामाणिकसंघाताश्रयणा(दूपी) दपि घट इति प्रतत्यिनुसारेण द्रव्यस्याङ्गीकारो न्याय्य इति भावः ।
ननु भवद्भिरपि तन्तुसंघातः पट इति स्वीकारात् स एवाङ्गीकर्तुं युक्त इत्यत्राह-संसर्गाख्येति--तथाऽपि तवापसिद्धान्त इति भावः ।
भावप्रकाशः स्वलक्षणानि ! कस्मात्पुनः प्रत्यक्षाविषय एव स्वलक्षणं? तथाहिविकल्पविषयोऽपि वहिदृश्यात्मक एवावसीयत इत्याह-तदेव परमार्थसदिति । परमार्थोऽकृत्रिममनारोपितं रूपं तेनास्तीति परमार्थसत् । य एवार्थ संनिधानासंनिधानाभ्यां स्फुटमस्फुटं च प्रतिभासं करोति परमार्थसन् स एव । स एव च प्रत्यक्षविषयो यतस्तस्मादेव स्वलक्षणम् । कस्मात्पुनस्तदवे परमार्थसादत्याह-अर्थ्यत इत्यर्थः हेय उपादेयश्च । हेयो हि हातुमिष्यते उपादेयश्चोपादातुं । अर्थस्य-प्रयोजनस्य क्रियानिष्पत्तिः तस्यां सामर्थ्य-शक्तिः तदेव लक्षणं-रूपं यस्य वस्तुनस्तदर्थ