________________
टतीयोऽध्यायः।
१३३
तथा।
गुरुसमीपे प्रश्नः ॥६॥ इति ॥ यदा पुनर्निपुणं चिन्यमानोऽपि कश्चिद्भावोऽतिगम्भीरतया स्वयमेव निश्चेतं न पार्यते तदा गुरोः संविग्रस्य गौतार्थस्य च ममोपे प्रश्नो विशुद्धविधिपूर्वकं पर्यनुयोगः । कार्यः। यथा भगवत्रावबुद्धोऽयमर्थोऽस्माभिः कृतयत्नैरपि ततोऽस्माम्बोधयितुमर्हन्ति भगवन्त इति ॥ तथा ।
निर्णयावधारणम् ॥ ६३ ॥ इति ॥ निर्णयस्य निश्चयकारिणो वचनस्य गरुणा 10 निरूपितस्यावधारणं दत्तावधानतया ग्रहणम्। भणितं चान्यत्रापि ।
सम्मं वियारियव्वं अट्ठपयं भावणापहाणेण । विसए य वावियज्वं वहुसुयगुरुणो मयासाभो ॥ १ ॥ तथा।
ग्लानादिकार्याभियोगः ॥ ६४॥
15
इति ॥ ग्लानादौनां ग्लानबालवृद्धवागमग्रहणोद्यतमाघूर्णकादिलक्षणानां माधुमाधर्मिकाणां यानि कर्माणि प्रतिजागरौषधानपानवस्त्रप्रदामपुस्तकादिसमर्पणोपाश्रयनिरूपणदिलक्षणनि तेष्वभियोगो दत्तावधानता विधेयेति ॥