________________
[है• १.३.२३.]
प्रथमः सर्गः।
५१.
इति किपि वृक्षवृश्चं करोति णिच्यन्त्यस्वरादिलोपे वृक्षवयति' किपि वृक्ष वृक्षाणां छेदको न च नैवास्ति । एवं लता न च । लताच्छेदकोपि नैवास्ति । वृक्षलता जन्मजराजीवनमरणारोहणाहारादिसचेतनधर्मवत्त्वेन सचेतना इति ताः प्राणातिपातनिवृत्तत्वेन न च्छिनत्तीत्यर्थः । यतोध्यारूढ उमीशमध्युः । स चासाविन्दुश्वाध्विन्दुः । स इवै निष्कलका निर्दोषा ये गुणा दयादयः । ईश्वरभालस्थस्य हि कलामात्रस्येन्दोः प्रतिपदिन्दोरिर्व निष्कलकत्वात्तैरन्वितः । नन्वत्र पुरे को गुणो येनैवंविधगुणोपेतो मुनिजनोत्र तिष्ठति तत्राह । यतः सदा सर्वदा साध्युदये साधूनां मुनीनामीस्तपःसंयमादिलक्ष्मीस्वस्या उदयो वृद्धिर्यत्र तस्मिनिर्जीवक्षेत्रताविशुद्धाहारप्राप्त्यादिसंयमगुणोपेततया मुनिजनप्रायोग्य इत्यर्थः ॥
वृक्षलता । लता न च । अन्यलोक । इत्यत्र "ग्योः" [२३] इति घ(य?)योलक॥ पदान्त इत्येव । भव्यजिय्य । कश्रित्तु स्वरजयोरनादिस्थयोर्यकारवकारयो?षवत्यवर्णादन्यतोपि लोपमिच्छति । अध्विन्दु । साध्युदये ॥
वन्ध एते दृशा अस्याः कमले क इव भ्रमः ।
क इत्यं नेह कामिन्याः स्तुत्या अन्योन्यमुद्यताः ॥ ७४॥ ७४. कामिन्याः स्तुत्यै लोचनाद्यवयवसौन्दर्यवर्णनायेह पुरेन्योन्यं के नोद्यताः । कथमित्याह । हे बन्धो बान्धवास्याः प्रत्यक्षायाः कामिन्या एते प्रत्यक्षे दशौ नेत्रे कमले । अत्रार्थे क इव भ्रमः को नाम संशयः । इवोसंभावनायाम् । एते दृशौ पछे एव । अत्रार्थे न काप्यसंभावना कार्येत्यर्थ इत्यम् ॥
१ एफ् ति तीति कि. २ एक्षव् ध् [व नहि.]. ३ सी "स्ति . ४ वी सी डी रणरो'. ५ एफ व निः क. ६ एफ व निः क. ७ एफ नयो. ८ वी जय्या ।।