________________
[है० १.३.१४.] प्रथमः सर्गः। दिति प्रच्छन्नगत्या गर्हितं विचरन्ति । यतो दूरमनिकटं यथा स्यादेवमत्युन्नतत्वात् दन्द्रमिता कुटिलं गता छाया येषां तांस्तथा वनाधिष्ठायकदेवतविशेपप्रभावात्सदा पम्फुलितानत्यर्थ फलितान् । एतेनात्रत्यतरूणां छायाफलादिना स्ववृक्षेभ्योप्यत्युत्कृष्टतोक्ता ॥
रंरम्यन्ते जना गोभिरभ्रंलिहवहल्लिहैः । प्रीयन्ते काम्यतपसः संयताः सय्यतैरिह ॥ ६१ ॥ ६१. इह पुरे जना लोका अभ्रं मेघं लिहन्ति स्थूलोन्नतत्वात्पृशन्त्यभ्रंलिहा ये वहं ककुदं लिहन्ति जातिस्वभावाजिया स्पृशन्ति वहल्लिहास्तैर्गोभिर्वृपभैः कृत्वा रंरम्यन्ते वाहादिना होडापातनेन परस्परमत्यर्थ क्रीडन्ति । एतेन जनानामतिसुखितत्वोक्तिः । तथेह काम्यमभिलपणीयं तपो यैस्ते संयता: सुविहितमुनयः सय्यतै: सुविहितसाधुभिः सह प्रीयन्ते एकधर्मस्नेहेन स्निह्यन्ति । एतेनात्र सुविहितानां सुविहितैः सह श्राद्धमक्तादिना न विरोध इत्युक्तम् ।।
क्रम्यते घमण । चंचलति चयूयन्ते । दंद्रमति दन्द्रमित । पंफुलत् पम्फुलितान् । चतुरं चंचलति रम्यञ्चप्राम्यते । मंदं दंद्रमति दूरन्दंदमित । संयंताः सयतैः । अभ्रंलिहवहलिहैः । इत्यत्र "तो मुम" [१४] इत्यादिना म्वागमस्य पदान्ते वर्तमानस्य च मस्य स्वावनुस्वारानुनासिको वर्गों पर्यायेण । पदान्त इत्येव । काम्य । स्वाविति किम् । रंरम्यते । मैणं सर्वः ।
१५ सी डी पम्फलि'. २ एफ तान् ए. ३ एफ भ्योप्युत्कृ. ४ एफ होटपा. ५ ए सी सयुताः. ६ ए सी सयतैः. ७ एफ भक्यादि. ८ ए सीडी पम्फल. ९ ए सी डी पम्फलि'. १० ए °यतैः स.