________________
८०२
ब्याश्रयमहाकाव्ये
[कर्णराजः ]
स्करं विक्षिपति। उक्षा हृष्टः सन् विलिख्य तटं विक्षिपति तथा यत्र च वत्सः स्वर्गिगवीं कामधेनुं प्रस्तुम्पत्युत्तुण्डयति । पयःपानायोध आघातपूर्व लेढीत्यर्थः ॥ प्रस्तुम्पतिगौरपि मास्तु देशः प्रस्तुम्पको नन्दतु तेद्य वत्स । मा सिञ्च मुञ्चाद्य समाधिमुद्रामुम्भामि यत्तेन्यदभीप्सितं वा ।।७।।
७५. हे वत्स पुत्र ते गौरपि धनुरपि वृपोपि वा प्रकृष्टस्तुम्पतिहिंसा यस्य स प्रस्तुम्पतिर्मास्तु । तथा तव देशश्च प्रगतस्तुम्पोस्मात् कचि प्रस्तुम्पकः परचक्रोपद्रवादिरहितः सन्नन्दतु । अत एवाय समाधिमुद्रां योगनिरोधं मा सिञ्च मा वर्धयेत्यर्थः । किं तु मुञ्च । वा यद्वा यत्तेन्यत्स्वर्गेप्यस्खलिताज्ञाभवनादेरपीतरदभीप्सितं समाधिमुद्राया अमोक्षलिङ्गेनाभिलषितमस्ति तदप्युम्भामि पूरयामि ।। शुम्भन्नडम्फन्सुधयेव तुम्फन्गुम्फन्नु हारान्वचनैरजम्भः । आरम्भरन्धोन्मुदितोथ लक्ष्मी स रेधुषीमारभतेति नोतुम् ॥७६॥
७६. अथैवंभणनानन्तरं स कणों रेधुपी संसिद्धां फलदानोन्मुखीमित्यर्थः । लक्ष्मीमिति वक्ष्यमाणरीत्या नोतुं स्तोतुमारभत । कीडक्सन् । अजम्मो मैथुनरहितो ब्रह्मचारीत्यर्थः । अत एवारम्भरन्धोन्मु
-
१ए तिगोर. २ ए स्तुम्यको. ३ ए ते व.डीतेश व. ४ डी तूफन्गु. ५ डी नैरज. ६ ए °न्धोमुदितोच ल. ७ए नोत्तुम्.
१बी विक्षप. २ए ति विकिरो भक्षाथी सन्विलिख्यावस्कर विक्षिपति उ. ३ बी विक्षप. ४ ए सी गवी का. ५ डीकृष्टा स्तु. ६ ए °स्तुन्तिा . ७ बा “गत. स्तु°. ८ ए रहि. स. ९ एरोध मा. १० एलपत. ११ए थवभ. १२ एन्तरस स. १३ ए वक्ष्ममा. १४ ए नोत्तु स्तो'. १५ डी भत् । की.