________________
३५
[है० १.३.६.]
प्रथमः सर्गः । इत्यत्र "रः कखे" [५] इत्यादिनापौ वा ॥पक्षे। प्रीतः कलिः । कलिः खिमः । धर्म. प्रीतः । खिन्नः फलितः ।।
स्वयंभूश्रीपतिः शंभुस्मर्यः सोमष्षडाननः । नृपैः पट्चक्रभृत्तुल्यैरस्यान्तस्स्थापिताः सुराः ॥ ४६॥ ४६. नृपैर्वनराजादिभिर्महाधार्मिकत्वादस्य पुरस्यान्तर्मध्ये धर्मार्थकारितनन्यप्रासादेपु स्वयंभूर्भगवानहन् ब्रह्मा च । श्रीपतिर्विष्णुः । शंभुर्हरः । सोमश्चन्द्रः। सूर्यो रविः । षडाननः स्कन्दश्च । एते सुरा देवाः स्थापिताः । किभूतैः । पण्णां चक्रभृतां मांधातृ(१)धुन्धुमार(२)हरिचन्द्र(३)पुरूरवो(४)भरत(५)कार्तवीर्या(६)ख्यानां समाहारः षट्चक्रभृत् । वलसैन्यादिना तेन तुल्यैः ।।।।
सयंभूश्श्रीपतिः । सोमप्पटाननः । शभुस्सूर्यः । अन्तस्स्थापिताः । इत्यत्र "शपसे शपसं वा" [६] इति वा शपमाः ॥ पक्षे । श्रीपतिः शंभुः । नृपैः षट् । सूर्यः सोमः ॥
निस्तन्दैश्चञ्चलैश्छेकैष्टीकमानैष्ठकारिभिः ।
तैस्तैस्थट्टैरिहाश्वानां रसति व्यथितेव भूः ॥ ४७ ॥ ४७. इह पुरेश्वानां तैस्तैः । अनेकरित्यर्थः । थट्टैः समूहैः कृत्वा भ रसति शब्दायते । कीदृशैः । निस्तन्द्रनिरालस्यैस्तेजस्विभिरित्यर्थः । च. चलैर्जात्यहयस्वभावेन चपलैः । छेकैः सुशिक्षितत्वेन गतिपश्चककरणदभैरत एव टीकमानैर्वाह्यालिकादौ वल्गद्भिरत एव च ठकाराकारखुरैर्भूम्या हननेनं ठं ठकारं भूपृष्ठे कुर्वन्तीत्येवंशीला ये तैष्ठकारिभिः । उत्प्रेक्ष्यते । व्यथितेव पीडितेव । अन्योपि हि व्यथावान् रटति । भुवश्व
१ एफ खपफ इ. २ सी रिनन्याप्रा. ३ डी भृताना मा. ४ बी एफ 'कैम्प?:. ५ ए सी । स्थहै:. ६ सी डीन व. ७ सी डी प्रेक्षते.
-