________________
[ है० ४.४.१९.] दशमः सर्गः ।
७६५ मिन्दं त्वमस्त्रैः शरैर्वध्या अर्थ तथा वियोगी कर्मतापन्नस्त्वया का मस्ताप्यासतामत्राणि पुगेवातेनापि कृत्वा घानिपीष्ट हन्यता तथा त्वां कोपि हरादिरपि मा वधीदिति । वर्षासु हि मेघा गर्जन्ति स्मरश्वातिजैत्रः स्यादित्येवमाशङ्का ।। पुष्पैः स्मरो व्याहत नावधिष्ट शस्त्रैर्न मत्रायुधमध्यंगाद्वा । प्रत्याययशक्तिमगाजयं स वशं त्रिलोकीं गमयंस्तथापि ॥१९॥
१९. यद्यपि स्मरः पुष्पैर्व्याहत प्राहरन्नं तु शस्त्रैरयोमयास्त्रैरावधिष्ट न च मत्रायुधं मत्रप्रधानमत्रं वायव्याद्यध्यगादस्मरत्तथापि स स्मरो वर्षामाहात्म्येन जयमगात्प्राप । कीडक्सन् । शक्तिं स्वसामर्थ्य प्रत्याययज्ञापयन्नत एव त्रिलोकीं वशं स्वायत्ततां गमयन्प्रापयन् । केकारवैस्तन्त्र्यधिगम्यते यैर्यसवि पड्डाधिनिगांसया तैः । सद्यश्च हंसैरजिगांस्यतार्थ म मानसस्याधिजिगांस्यते च ॥२०॥
२०. थैर्मयूरैः केकारवैः कृत्वातिमाधुर्यात्तत्री वीणाधिगम्यते स्मायंते तैर्मयूरैः पजाधिजिगांसया पड्डस्वरपिपठिपया व्यरावि पंड्जस्वरः कृत इत्यर्थः । मयूरा हि षड्नस्वरं कुर्वन्ति । तथा सद्यः केकाश्रवणकाल एव हंसैश्चौजिगांस्यत गन्तुमिष्टमथानन्तरं मानसस्य सरसोधिजिगास्यते स्म च सुस्मूर्षितम् ।। जघास आद । इत्यत्र "परोक्षायां न वा" [१८] इति वा धेरलः ॥ उवाय ववौ । अत्र “वेर्वय्" [१९] इति वा वय् ॥
१ डी ध्यगीद्वा. २ वी °थ स्मा मा. १ए थ यथा. २ सीन शास्त्र. ३ सी स्त्रैरव. ४ बी मत्रायु. ५ डी ध्यगीद. ६ सी जमागा. ७ एयमापत्प्रा. डी यमागा. ८ डी पनाधि'. ९ डी पगस्व. १० वी डी पङ्गस्व. ११ वी डी पनम्व. १२ सी डी "श्चाधिजि . १३ ए मन्दान. १४ डी सरोधि'. १५ सी घस्ल ।। 3.