________________
[ है० ४.३.९२.] नवमः सर्गः ।
७४९ शृण्वत्यवात्सीदिति राज्ञि चिन्तासौ मे दिदीयानधृतिदिदीये । नाल्यः पपुस्त्वामवितासि कर्णः कष्टे हो तस्थिथ चेत्यथात्
॥ १६७॥ १६७. शृण्वति पूर्वोक्तमाकर्णयति राज्ञि कर्ण इत्येवंविधा चिन्तावात्सीदुवास । चिन्तामेवाह । असौ मयणल्ला दिदीयाना मद्वियोगेन क्षीणा धृति स्वास्थ्य यस्याः सा तथा सती मे मदर्थं दिदीये क्षीणा । अथैवं चिन्तानन्तर मयणल्लामाहच्चावदञ्च । कथमित्याह । हे मयणल्ले । हहा खेदे । त्वं कटे दुःखे तस्थिथ स्थितवती । परमाल्यः सख्यस्त्वां न पपुर्न ररक्षुग्धुनाहं कर्णस्त्वामवितास्मि रक्षिष्यामीति । इन्द्रवाछन्दः ।।
पाणिं ते व्यतिले नतभ्र गुरवो यत्त्वामदुर्मे ततो ग्लेयापजनस्त्वदिच्छुरखिलो ग्लायाच दिव्यो जनः । धेयास्त्वं महिषीपदं मैम रतिं देया विहेयास्त्रपा निष्पेया मधुपर्कमित्यभिदधत्तां पर्यणैपीनृपः ॥ १६८ ॥
१६८. नृपः कर्णस्तां पर्यणैषीत् । कीहक्सन् । अभिधद्वदन् । किमित्याह । हे नतभ्र यद्यस्मात्ते गुरवः पितरस्त्वां मे मामदुस्ततस्तस्मादहं ते पौणि व्यतिले विनिमयेन गृहामि । ततस्त्वत्पाणिग्रहणानन्तरं त्वदिच्छुरखिलो भूपजनो ग्लेयात्क्षीणहर्षो भूयात्तथा त्वदिच्छुदिव्यो जनो देवोघो ग्लायाच्च । तथा त्वं मधुपर्क दना संयुक्तं मधु निष्पयाः । विवाहकाले हि वधूवरौ मधुपर्क पिबत इत्याचारः । मत्पत्नी भूया इत्यर्थः । तथा महिषीपदं पट्टराज्ञीपदवी धेया धार्या
१ ए पुत्वाम. २ ए हा वस्थि. ३ ए मग र. ४ ए देवा वि . ५ ए निष्फेया. बी निप्पेया.
१एहत् । अवदस्व क. २ एटे त. ३ ए रक्षताह. ४ ए गुरुवः. ५ए आणि व्य°. ६ सी डी विनम'. ७ ए तस्त्व'. ईपर्क द.