________________
है ०४.३.७७.]
नवमः सर्गः।
७४३
वपि नालिक्षातामत एव स्वजन एतद्वन्धुवर्गः सुखेदरिद्रीदरिद्रोभूत्सुखरहितोभूदित्यर्थः । तथा सखीजनः सुखेदरिद्रासीत् ।।
उपारुद्ध । मा विरुद्धा । अकृत । मा कृथाः । अत्र "धुड्' [ ७० ] इत्या. दिना सिचो लुक् । अनिट इति किम् । अभापिष्ट । अभापिष्ठाः ॥
अन्वग्रहीः । इत्यत्र "इट ईति" [ ७१ ] इति सिचो लुक् ॥ चकाधि चकादि । इत्यत्र “सो धि वा" [ ७२ ] इति सस्य वा लुक् ॥
असि ॥ हस्त्वेति । द्योतयामाहे । अत्र "अस्तेः सि हस्त्वेति" [ ७३ ] ईति सस्य लुगेकारे तु हः ॥ परोक्षाया एकारे नेच्छन्त्यन्ये । द्योतयामासे ॥
अदुग्ध अधुक्षत । अँदिग्ध समधिक्षत। अलीढं अलिक्षत । न्यगूढ अघुक्षत । इत्यत्र "दुहदिह" [७४ ] इत्यादिना सको लुग्वा ॥
अलिक्षाताम् । अत्र "स्वरेतः" [ ७५ ] इति सकोस्प लुक् ॥ अदरिद्रीत् अदरिद्रासीत् । इत्यत्र "दरिद्रोद्यतन्यां वा" [ ७६ ] इत्यन्तस्य लँग्वा ॥
दरिद्रांचक्रुषामन्तर्दरिद्रामीति कोप्यदात् । कर्णरूपं लिखित्वास्या अदरिद्रायकोन्यदा ।। १५७ ॥ १५७. कोपि चित्रकरोन्यदा कर्णरूपं लिखित्वास्याः कन्याया अदात् । कीहक्सन् । दरिद्रांचषामन्तदरिद्राणां मध्ये दरिद्राम्यहं दरिद्रोस्मीति हेतोरदरिद्रायको दरिद्रिष्यन्नीश्वरीभवितुमित्यर्थः ।।
१ ए चक्षुपा. सी चक्षपा. २ डी रिद्रोमी. ,
१ ए क्षाता त. २ सी "द्रीभू' ३ ए त्यथा. । त. ४ ए पिष्ट । म. ५ ए सी ग्रहीदित्य. ६ एति तस्य. ७ डी तम् । म. ८ ए अली'. ९ सी ढन् म. १० सी डी क्षत् । न्य. ११ ए अधुक्ष. १२ ए दुहिदुइ. १३ बीई 'रे ६०. १४ ए लुग्व ।।. १५ ए चक्षुष्वा. १६ ए ईलिदा. १७ ए °मी हे.