________________
७४२ व्याश्रयमहाकाव्ये
[कर्णराजः] सखी । तथानयास्मत्सख्योज्वलं निष्कलङ्कं कदम्बकुलं कदम्बाख्यवंशो द्योतयामाहे स्त्रीरत्नत्वेनाशोभ्यत ॥
दक्षिणा द्योतयामासे येन योब्धिमधुक्षन ।
अदिग्धादुग्ध गां तस्य पुत्रीयं जयकेशिनः ॥ १५४ ॥ १५४. तस्य जयकेशिनो राज्ञ इयं कन्या पुत्री येन दक्षिणा दिग् द्योतयामासे स्वामित्वेनाशोभ्यत तथा योब्धिमधुक्षत प्रभुत्वाद्रत्नान्यक्षारयत्ताँ यो गां पृथ्वीमदिग्ध दिह उपचय इत्येके । न्यायपालनेनोपचितीचके तथादुग्ध रत्नान्यक्षारयच्च ।
अदृष्टेष्टवरा नान्नमलीहाघुक्षताशयम् । न्यगूढाकारमेपा को न यथा समधिक्षत ॥ १५५ ॥ १५५. एषा कन्या दृष्टेष्टवरा सती तथान्नं नालीढ नाभुक्त तथैपाशयमिष्टवराप्राप्त्यसमाहितं चित्तं तथा महाकप्टेनाधुक्षत संवृतवती । तथैषाकारमिष्टवराप्राप्तिदुःखोद्भवं मुखविकारादि तथातिकष्टेन न्यगूढ यथा को न समधिक्षत न संदिग्धवान् । किं तु सर्वोप्येवंविधावस्थासौ किं जीविष्यति न वेति संदेहे पपातेत्यर्थः ॥
नेपालिक्षत यत्तन्नालिक्षातां पितरावपि । मुखेदरिद्रीत्वजनोदरिद्रासीत्सखीजनः ॥ १५६ ॥ १५६. यद्यस्मादेषा कन्या नालिझत नामुक्त तत्तस्माद्धेतोः पितरा
१५ भदुग्धा . २ धीम् । न्यगू. ३ ए °क्षता ॥. ४ डी जना• ॥.
१ए 'मास्यव. २ ए राज ' ३ ए योधिम. ४ वी या पृ.५ डी चिता च'. २५ पपाते'.