________________
७४० घ्याश्रयमहाकाव्ये
[कर्णराजः] अच्छासीः । मा स सात् मा सासीत् । इत्यत्र "देवा" [६७] इत्यादिना वा सिचो लुप् ॥
अथ प्रथममाशङ्कितं के चित्सुभगमेतेनापि स्त्रीरत्नेनाभिलप्यमाणतया धन्यं मन्यमानोसौ श्लोकद्वयेन स्तौति ॥
तीर्थतत स किं दानमतनिष्ट तपः स किम् ।
अंतनिष्ठा रतिं यस्मिनुत्कण्ठामतथास्तथा ॥ १४९ ॥ १४९. स सुभगस्तीर्थे गयादौ किं दानमतत दावित्यर्थः । तथा स किं तपोतनिष्ट चक्रे यस्मिस्त्वं रतिं मनःप्रीतिमतनिष्ठास्तथा यस्मिमुत्कण्ठामतथाः॥
धरं कस्यासनिष्टोमा हरोसातासत सरः।
असनिष्ठा दृशं यत्र मनोसाथा यशोसथाः ॥१५० ॥ १५०. उमा गौरी कस्य वरं प्रसादमसनिष्टादात्तथा कस्य हरो वरमसात तथा कस्य स्मरो वरमसत । यत्र नरे त्वं दृशमसनिष्ठा दर्शनायादास्तथा यत्र मनोसाथा अनुरागेणादा अत एव यत्र यशो रूपगुणाद्यतिशयोत्था कीर्तिमसथाः ॥
अतते अतनिष्ट । अतथाः अतनिष्ठाः । असत असनिष्ट । असथाः असनिष्ठाः। अन "तन्भ्यो वा" [६८ ] इत्यादिना सिचो लुव्वा । तत्संनियोगे नणयोश्र लुए ॥
१६
१बी अतिनि. २ ए सिन्नुत्कण्ठात.
१५ च्छासी । मा. २ सी डी मा स सा. ३ वी यमा'. ४ ए माशसित. ५ डी'त किंधि.६ ए मनत. ७ए चको य. ८ ए तथा ॥. ९ ए सामद । १.सीदात् म.११ए योत्था की .१२ एतता अ.१३ एनिष्टः । मं. १४ ए निष्टा । म. १५५ °सता अ०. १६ एनिष्टाः । अ'. १७ ए तन्यो वा. १८ ए मुत्ला । त° १९ ए णवोष.