________________
७३२
व्याश्रयमहाकाव्ये [कर्णराजः] मेवेत्यर्थः । अत एव यैराजौ रणे क्रीडा रणकलिरकामि च वाञ्छितारामि च युद्धनाजी क्रीडितं च रणे यैनियूंढ मित्यर्थः । तान् गजान्स कर्णोविरामको दर्शनादनिवर्तमानः सन्नपश्यद्यतो जयश्रीकामुकः ॥
व्यायामच्छेदकामेन तेनागामि लतागृहे ।
दृष्टा चागामुका श्रीर्नु काप्यायामकचक्षुषा ॥ १३४ ॥ १३४. तेन कर्णन लतागृहेगामि गतं यतो व्यायामच्छेदकामेन खेदापनोदेच्छुना । तत्र च कापि नायिका श्रीर्नु रूपाद्यतिशयेन लक्ष्मीरिवागामुकागच्छन्ती तेन दृष्टा च । कीदृशा सता । आयामके तदर्शनाद्विशेषेण दी/भवन्ती चक्षुपी यस्य तेन ॥
नानाम्यायामि हाम्भोवाम्याचामि सुधेव च ।
उन्नामिकाभ्रवस्तस्य दृशा निर्नामपक्ष्मणा ॥ १३५ ॥ १३५. तस्य कर्णस्य दृशाक्ष्णा नानामि न नीचैर्भूतम् । कीदृशस्य सतः । उन्नामिके अद्भुतरूपदर्शनेन विस्मरत्वादुन्नमन्त्यावूर्वीभवन्त्यौ ध्रुवौ यस्य तस्य । यतः किभूतया । रूपदर्शनभङ्गभयान्निर्नामानि निर्नमनानि निमीलनरहितानीत्यर्थः । पक्ष्माणि यस्यास्तया । कि त्वायामि दीर्घाभूतम् । तथा हर्षाम्भ आनन्दायु । अवामि च क्षरित च यत: सुधेवाचामि सुखैदरूपावलोकनेनामृतमिवास्वादितम् ॥
१ वी च्छेदिका. २ ए लगागृ. ३ ए डी दृष्ट्वा चा.
१ए त्यथो ए. २ सी डी रणे के. ३ ई रकका. ४ ए कोवि । ५ बी के उद्भु. ६ ए 'रत्यादुन्नमत्यावू. ७ बी सी डी स्तथा । कि. ८ई किं त्वया . ९ई भयान. १० सी डी 'श्रु । आचामि, ११ पक्षरत. १२ एखसरू.