________________
[हे. ४.२.८२.]
नवमः सर्गः।
६९३
उष्ट्रैश्च नाययोल्लाघवद्भिः प्रक्षीवितेतरैः । मेरुभित्तनया वित्तं स्वर्णवित्तमुपायनम् ॥ ५८ ॥ ५८. जात्यत्वावंहीयस्त्वाच्च संरुभित्ततया मेरो. खण्डमिदमिति मेरुशकलत्वेन वित्तं ख्यातं स्वर्ण वित्तं स्वर्णम्पं धनमुपायनं च भीमार्थं ढौकनिका चौष्ट्रैः कर्तृभि यय । किभूतै. । उल्लाघवद्भिर्नीरोगैस्तथा प्रक्षीवितेतरैः प्रक्षीविता इव मत्ता इवोत्कूर्दकत्वात् प्रक्षीवितो अदान्तास्तेभ्य इतरैर्दान्तः ।। अदूनः। गृन । इत्यत्र “दुगोरू च” [७७] इति न ऊश्च ॥ अक्षाम । अशुष्क । पछ । इत्यत्र "शुपि" [ ७८ ] इत्यादिना मकवाः ॥ निर्वाण । इति “निर्वाणमवाते" [ ७९] इति निपात्यम् ॥ अवात इति किम् । वात निर्वात ॥ केचिद् वातनिर्वाण इतीच्छन्ति ॥
क्षीवान् । उल्लाघान् । कृशान् । परिकृश । फुल्ल । उत्फुल्ल । संफुल्ल । इत्येते "अनुपसर्गा" [ ८० ] इत्यादिना तान्ता निपात्याः ॥ क्तवत्यपि केचित् । उल्लाघवद्भिः ॥ अनुपसर्गा इति किम् । प्रक्षीबित ॥
भित्त । इत्यतेत् "भित्तं शकलम्"[८१]इति निपात्यम् । स्वर्णवित्तम् । वित्तम् । इत्येतो "वित्तम्' [ ८२ ] इत्यादिना निपात्यौ ॥
एतज्जुहुधि भीमस्य मित्रं मां विद्धि शाधि च ।
जेहि शङ्कामेधि सज्जो निश्चिनु व्रज रानुहि ॥५९ ॥ ५९. एतद्गजाद्युपायनं भीमस्य जुहुधि देहि । तथा मित्रं विद्धि १ डी रुवित्त'. २ सी वित्त'. ३ ए यन् ॥. ४ ए जुहोधि. ५ ए हि सका. ६ ए राध्वहि.
१ए त्वार्ददीय. डी वादही'. २ ए का चौष्ट्रि.. १सी तास्ते', ४ ए सी गोरुच. ५ सी डी ति तस्य न. ६ ए नक्रश्च. ७ए °शुपीरि', ८ सी डीवा इ. ९ए"कृशान् । फु. १० सी डीम् । एतो.