________________
[है० ४ २.२९ ]
नवमः सर्गः ।
त्यर्थः । संधि वा ह्वालयन्प्रवर्तयन । यतः कीदृक् । नयं न्यायं मालयन्प्रवर्तयन । यद्ययं मया सह विग्रहं सधि वा चिकी' स्यात्तदा न्यायनिष्टत्वातं मत्पाउ प्रेपयेन तु प्रेपितवांस्तस्मान्मैत्र्यमैत्री च न कारणं कि त्वन्यत्किमपीत्यर्थ इति ॥
स्वर्णवर्माशुभिर्योम स्नपयत्स्नापर्यंदिशः । कर्मेण वमयत्फेनं गरं शेषेण वामयत् ॥ ११ ॥ अवन्या वानयत्कम्पं निश्छद्म वनयत्तथा । शिखिच्छदच्छचयैर्धामच्छद्भिश्छदिःश्रियम् ।। १२ ॥ दिव्यप्रच्छदसाद्याश्वमालुलोकच चेदिपः।
कालोचितं च वेत्रीशेनाशांसदचीकरत् ॥ १३ ॥ ११-१३. चेदिप आश्वमश्वौघमालुलोकच न केवलं रजोपश्यदिति चार्थः । कीदृशम् । स्वर्णवाशुभिव्योम स्लपयदुज्वलीकारकत्वे. नाभिषिञ्चदिवैव दिशः स्नापयत् । तथा कूर्मेण कातिभागक्रान्या फेनं वमयदुद्गारयन् । तथा शेषेण का गरं विषं वामयत् । तथावन्या कम्पं वानयदवनी कम्पं याचमानां प्रयुञ्जानं पृथ्वी कम्पयदित्यर्थः । तथा निश्छद्म निर्मायं यथा स्यादेवं धामातपं छादयन्ति विप् । तैर्धामच्छद्भिः शिखिना मयूगणां ये छदाः पक्षास्तेपां छत्रचयैः
१ ए यन्दिश २ ए फेर्न ग'. ३ वी निच्च्म. ४ ए त्रत्रय. ५ सी डी प्रच्छाद. ६ ए शाशद.
१ ए 'व्यमित्री २ ए सी वल र. ३ वी मनप. ४ थी पिञ्चदि'. ५ ई शेषक. ६ ए गर वि. ७ ए वनीय क. ८ ए °चनाना. ९ वी निच्छा.