________________
६६८
ब्याश्रयमहाकाव्ये
भीमराजः]
क्ष्णमुपरमय्योपरमय्य यमयितुरुपरमयितुस्तिरस्कुर्वत: सत इत्यर्थः । मैत्र्यै बलिष्ठतयायं संप्रति शत्रून्पराभवन्मा भीममपि पराभूदिति सख्याय किमेप भीम उदयमि मन्त्रिभिरुद्यमं कारितः । किं वा मैन्यै संप्रत्ययं शत्रुजयन्मा भीमस्यै दुःसाध्यो भूदित्याशयेन विग्रहायोदयामि । तथा विधिदैवमर्क न यामयति न परिवेवेष्टि परचक्रकृतराष्ट्रभङ्गादिसूचकं दुर्दैवकृतमर्कपरिवेषाद्यरिष्टं न किं चिदस्तीत्यर्थः । चः परमर्थे । परं भीम इतोस्मिन्देश एति । कीहक्सन् । अरी ज्ञापंज्ञापं ज्ञपंज्ञपमभीक्ष्णं हिंसित्वा हिंसित्वा ज्ञपयन्हिसन्नत एव मामप्रज्ञपयनपरितोपयन् । तथा यत्पूर्वैर्यस्य भीमस्य पूर्वजैर्मूलराजाद्यैरखं ज्ञपयित्वा तीक्ष्णीकृत्याज्ञाप्यमारि शत्रुहिंसा चक्रे । भावेत्र निन् । तुः परमर्थे । परं चहयित्वा शाठ्यं कृत्वा यत्पूर्व ज्ञपि न हिसितं सोयं भीमोतर्कितमभिपेणकत्वात्किं चाहंचाहं चहंचहमभीक्ष्णं छलयित्वा छलयित्वा जयेच्छत्रु वशीकुर्यात् । “विधिनिमन्त्रण" [५-४-२८] इत्यादिना संप्रश्ने सप्तमी । तथैनं भीमं ज्वालंज्वालं ज्वलंज्वलं प्रत्यवस्कन्दनौदिनाभीक्ष्णं कोपयित्वा कोपयित्वा न ज्वलयामि न कोपयामि । किं कृत्वाज्ञात्वा । किमित्याह । अमुना भीमेन न चाहिता न शाठ्यं करिष्यते चहिता वा । वा शब्दोत्रापि योज्यः । शाठ्यं करिष्यते वा । तथामुनी नावालि कोपेनात्मा न ज्वालितोज्वलि वेति । तथा पर शत्रु ज्वालयन्प्रतापैः संतापयन्ज्व लयन्प्रकर्षेण संतापयंश्च भीमो दूतं झलयेत्प्रेषयेत् । कीडक्सन् । विग्रहं वा ह्वलयंञ्चालयन्प्रवर्तयन्नि
१ए तोः स . २ सी डी भूयादि'. ३ डी मैत्र्ये सं. ४ ए ‘स्य दुसा. ५ ए मकै न. ६ ए सी डी रमार्थे'. ७ए र चहयित्वा शाठ्य कृत्वा यत्पूर्वनाशपि न हिंसित सोयं भीमोतकितन्हि' ८ए पूर्वैर्मू. ९ ई वे नि. १०सी तुप'. ११ ए पूर्वर्ना. १२ सी नाभी'.१३ सीडीते चाहि°. १४ सी तरी नावा. १५ यी तो ज्वालिचेति. १६ ए repeats from यन् to लयन्. १७ ए ईप्रज्वाल. १८ ए पयश्च भीमौ दू. १९ डीये की. २० ए वा हुल'.